________________
पत्ताण खेत्त जयणा काऊणावस्सयं ततो ठवणा । पडणीयपत्तमामग भांगसद्धे य अचियत्ते ॥ २३६ ॥ .
एवं तेषां विहरतां प्राप्तानामभिमतक्षेत्रे 'जयणे ति यथा यतना कर्त्तव्या तथा च वक्ष्यति, 'काउं आवश्यक' कृत्वा चावश्यक-प्रतिक्रमणं 'ततो ठवण'त्ति ततः स्थापना क्रियते केषाञ्चित्कुलानां, कानि च तानीत्यत आह-'प्रत्यनीक' शासनादेः 'प्रान्तः' अदानशीलः मामगो य एवं वक्ति-मा मम समणा घरमइंतु, भद्रकश्राद्धौ प्रसिद्धौ ‘अचिअत्तित्ति यः॥ साधुभिरागच्छद्भिर्दुःखेनास्ते, शोभनं भवति यद्येते नायान्ति गृहे । एतेषां कुलानां यो विभागः क्रियते प्रतिषेधाप्रतिषेधरूपः स स्थापनेत्युच्यते । इदानीं भाष्यकार एनां गाथां प्रतिपदं व्याख्यानयन्नाहबाहिरगामे वुच्छा उजाणे ठाणवसहिपडिलेहा । इहरा उ गहिअभंडा वसही वाघाय उड्डाहो॥१०४॥ (भा०)
दारगाहा | एवं ते बाह्यग्रामे आसन्नग्रामे पर्युषिताः सन्तोऽभिमतं क्षेत्रं प्राप्य तावदवतिष्ठन्ते । 'उजाणे ठाणं'ति उद्याने तावत्स्थाने आस्थां कुर्वन्ति । 'वसहिपडिलेह'त्ति पुनर्वसति प्रत्युपेक्षकाः प्रेष्यन्ते । 'इहरा उत्ति यदि प्रत्युपेक्षका वसतेर्न प्रेष्यन्ते ततः 'गृहीतभाण्डाः' गृहीतोपकरणा वसतिव्याघाते सति निवर्तन्ते ततश्च उड्डाहो भवति-उपघात इत्यर्थः । तत्र च प्रविशतां शकुनापशकुननिरूपणायाहमइल कुचेले अभंगिएल्लए साण खुज्ज वडभे या । एए उ अप्पसत्था हवंति खित्ताउ निंताणं ॥१०॥(भा०) नारी पीवरगन्भा वड्डकुमारी य कट्ठभारो य । कासायवत्थ कुचंधरा य कजं न साहेति ॥ १०६॥(भा०)