SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ स हि रात्रौ कायिकाद्यर्थमुत्थितः सन्नवनतः प्रमार्जयन्निर्गच्छति ततस्तमवनतकायं दृष्ट्वा स्तेन इति मत्वा आहन्याकश्चित् । दारं । 'नपुंसिस्थित्ति व्याख्यायते-'सागारिअसंघट्टणत्ति सागारिकसंस्पर्शे सति, स हि रात्रौ हस्तेन परामृशन् गच्छति, यतस्ततः स्पर्शने सति कश्चित्सागारिको विबुद्ध एवं चिन्तयति-यदुतायं 'अपुमत्ति नपुंसकं तेन कारणेन मां स्पृशति, ततः सागारिकस्तं साधुं नपुंसकबुद्ध्या गृह्णाति । अथ कदाचित्स्त्री स्पृष्टा ततः सा शङ्कते, यदुतायं मम समीपे आगच्छति, ततः 'साहेति' कथयति निजभर्तुः सौभाग्यं ख्यापयन्ती परमार्थेन वा ॥ | ओरालसरीरं वा इथि नपुंसा बलावि गेण्हति । सावाहाए ठाणे निते आवडणपडणाई ॥२२४ ॥ ___ औदारिकशरीरं वा तं साधुं दृष्ट्वा दिवा ततो रात्रौ स्त्री नपुंसकं बलाद्गृह्णाति, औदारिक-चह्निकम् । एते विस्तीर्णवसतिदोषा व्याख्याताः । इदानी क्षुल्लिकावसतिदोषान् प्रतिपादयन्नाह-'सावाहाए'त्ति संकटायां वसतौ स्थाने-अवस्थाने सति णिते आवडपडणादीति निर्गच्छन्नापतितश्च निर्गच्छन्नापतनपतनादयो दोषाः, तथातेणोत्ति मण्णमाणो इमोवि तेणोत्ति आवडइ जुद्धं । संजमआयविराहणभायणभेयाइणो दोसा ॥ २२५ ॥ | एवं साधोरुपरि प्रस्खलिते साधौ यस्योपरि प्रस्खलितः स तं स्तेनकमिति मन्यमानः अयं च सुप्तोत्थितः अमुं प्रस्ख-15 दलितं स्तेनकं मन्यमानः सन् 'आपतति युद्धं' युद्धं भवति, ततश्च संयमात्मनोविराधना भाजनभेदादयश्च दोषाः, भाजनं पात्रकं भण्यते । उक्ता क्षुल्लिका वसतिः, यस्मात्क्षुल्लिकायामेते दोषास्तस्मात्प्रमाणयुक्ता वसतिग्राह्या । एतदेवाह तम्हा पमाणजुत्ता एकेकस्स उ तिहत्थसंथारो। भायणसंथारंतर जह वीसं अंगुला हुंति ॥ २२६ ॥
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy