________________
श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः
॥ ८९ ॥
'आवश्यकं' प्रतिक्रमणं कुर्वताम् 'पवंचए 'त्ति ते सागारिका उद्घट्टकान् कुर्वन्ति, तथा ध्यानयोगव्याघातश्च भवति - चलनमापद्यते तो यतः । दारं । अहिगरणं भण्णइ- 'असहणे'ति कश्चिद् 'असहनः' कोपनो भवति 'अपरिणतो वा' सेहप्रायः, एते राटिं सागारिकैः सह कुर्वन्ति, ततश्च भाजनानि पात्रकाणि तद्भेदो - विनाशो भवति, षटू कायाश्च विराध्यन्ते । दारं । 'तदुभयं 'ति व्याख्यायते
-सुत्तस्थsकरण नासो करणे उहुंचगाइ अहिगरणं । पासवणिअरनिरोहे गेलन्नं दिट्ठि उड्डाहो ॥ २२९ ॥ 'सुत्तत्थअकरण' त्ति सूत्रार्थपौरुष्यकरणे नाशः- तयोरेव विस्मरणम् । अथ सूत्रार्थपौरुष्यौ क्रियेते ततश्च 'उडुंचकादि' उद्घट्टकादि कुर्वन्ति । ततश्चासहना राटिं कुर्वन्ति, ततोऽधिकरणदोष इति । दारं । " उच्चारकाइअनिरोहो "त्ति व्याख्यायते - ' पासवणि' त्ति 'प्रश्रवणस्य' कायिकायाः 'इयर'त्ति पुरीषस्य च निरोहे 'गेलन्नं' ग्लानत्वं भवति । अथ व्युत्सृजन्ति ततो 'दिट्ठे उड्डाहो'त्ति सागारिकैर्दृष्टे सति 'उड्डाहः' उपघातः प्रवचनस्य भवति। “संजम आयविराहण" त्ति व्याख्यायते - मा दिच्छिहिंति तो अप्पडिलिहिए ( थंडिल्ले ) दूर गंतु वो सिरति । संजम आयविराहणगहणं आरक्खितेणेहिं ॥ २२२ ॥
अथ सागारिका मां मा द्राक्षुरितिकृत्वाऽस्थण्डिल एव दूरे गत्वा व्युत्सृजति ततः संयमात्मनोर्विराधना भवति, ग्रहणं चारक्षिकाः कुर्वन्ति । ' तेण 'ति स्तेनका वा ग्रहणं कुर्वन्ति । दारं । "संकातेण "त्ति ब्याख्यायते
1
ओणय मजमाणं दहुं तेणेत्ति आहणे कोई । सागारिअ संघट्टण अपुमेत्थी गेण्ह साहइ वा ।। २२३ ॥
विस्तीर्णादिका त्रिधा वसतिः नि. ११७-२२३
॥ ८९ ॥