________________
| वित्थण्णा खुड्डुलिआ पमाणजुत्ता य तिविह वसहीओ । पढमबिइयासु ठाणे तत्थ य दोसा इमे होंति ॥ २१७ ॥ विस्तीर्णा का प्रमाणयुक्ता वा त्रिविधा वसतिः 'पढमबितियासु ठाणे' त्ति यदा प्रथमायां वसतौ स्थानं भवति विस्तीर्णायामित्यर्थः, द्वितीया क्षुल्लिका तस्यां वसतौ वा यदा भवति तदा तत्र तयोर्वसत्योः 'एते' वक्ष्यमाणका दोषा भवन्तिखरकम्मिअवाणियगा कप्पडिअसरक्खगा य वंठा य । संमीसावासेणं दोसा य हवंति णेगविहा ॥ २९८ ॥ तत्र विस्तीर्णायां वसतौ 'खरकम्मिअ'त्ति दण्डपासगा रात्रिं भ्रान्त्वा स्वपन्ति, वाणिज्यकाश्च वालुञ्जकप्राया आगत्य स्वपन्ति तथा कार्पटिकाः स्वपन्ति, सरजस्काश्च - भौताः स्वपन्ति, वण्ठाश्च स्वपन्त्यागत्य 'अकयविवाहा भीतिजीविणो य वंठि"त्ति । एभिः सह यदा संमिश्र आवासो भवति तदा तेन संमिश्रावासेन दोषा वक्ष्यमाणका अनेकविधा भवन्ति ॥ ते चामीआवासगअहिकरणे तदुभय उच्चारकाइयनिरोहे । संजयआयविराहण संका तेणे नपुंसित्थी ॥ २१९ ॥ आवश्यके - प्रतिक्रमणे क्रियमाणे सागारिकाणामग्रतस्त एव उद्घट्टकान् कुर्वन्ति, ततश्च केचिदसहना राटिं कुर्वन्ति, ततश्चाधिकरणदोषः । ' तदुभए'त्ति सूत्रपौरुषीकरणे अर्थपौरुषीकरणे च दोष उद्घट्टकान् कुर्वन्ति । निरोधश्च उच्चारस्य कायिकायाश्च निरोधे दोषः । अथ करोति तथाऽपि दोषः संयमात्मविराधनाकृतोऽप्रत्युपेक्षितस्थण्डिले । 'संका तेणे 'ति स्तेनकशङ्कादोषश्च-चौराशङ्कादोषश्च चौराशङ्का, नपुंसककृतदोषः संभवति ततश्च स्त्रीदोषश्च भवतीति द्वारगाथेयम्, इदानीं प्रतिपदं व्याख्यानयन्नाह -
आवासयं करिते पवंचए झाणजोगवाघाओ । असहण अपरिणया वा भायणभेओ य छक्काया ॥ २२० ॥