________________
C4962
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
दिभिः संप्रयोगे-संपर्क, एतदुक्तं भवति-न पार्श्वस्यादिभिः साधर्मिक
SUSASUSASAASAASAASAS
स्थादिषु दानग्रहणसेवाविराधना 'संपओगोत्ति तैरेव पार्श्वस्थादिभिः संप्रयोगे-संपर्के, एतदुक्तं भवति-न पार्श्वस्थादिभिः साधर्मिकसह संप्रयोग आसीत् । 'ओघ' त्ति गयं 'ओघतः' सङ्खपत आलोचना दीयते, दत्त्वा चालोचनां यदि तु अभुक्तास्ततो|४|| कृत्यं नि. भुञ्जते । अथ भुक्तास्ते साधवस्तत इदं भणन्ति
२१२-२१६ भुंजह भुत्ता अम्हे जो वा इच्छे अभुत्त सह भोजं । सवं च तेसि दाउं अन्नं गेहंति वत्थत्वा ॥ २१४ ॥ भुञ्जीत यूयं भुक्ता वयं, 'यो वा इच्छेत्ति यो वा साधु क्तुमिच्छति ततः 'अभुत्त सह भोजति तेनाभुक्तेन सह भोज्यं कुर्वन्ति । एवं यदि तेषामात्मनश्च पूर्वानीतं भक्तं पर्याप्यते ततः साध्वेव अथ न पर्याप्यते ततः सर्वे 'तेभ्यः' प्राघूर्णकेभ्यो दत्त्वा भक्तमन्यगृहन्ति-पर्यटन्ति वास्तव्यभिक्षवः । एवमानीय कति दिनानि भक्तं प्राघूर्णकेभ्यो दीयते इत्यत आह- तिणि दिणे पाहुन्नं सवेसिं असइ बालवुड्डाणं । जे तरुणा सग्गामे वत्थत्वा बाहि हिंडंति ॥ २१५ ॥
त्रीणि दिनानि प्राघूर्णकं सर्वेषामसति बालवृद्धानां कर्त्तव्यं, ततश्च ये प्राघूर्णकास्तरुणास्ते स्वग्राम एव भिक्षामटन्ति, वास्तव्यास्तु बहिर्गामे हिण्डन्ति । अथ ते प्राघूर्णकाः केवला हिण्डितुं न जानन्ति ततः किं कर्त्तव्यमित्यत आह
संघाडगसंजोगो आगंतुगभद्दएयरे बाहिं । आगंतुगा व बाहिं वत्थव्वगभद्दए हिंडे ॥ २१६ ॥ सङ्घाटकसंयोगः क्रियते, एतदुक्तं भवति-एको वास्तव्य एकश्च प्राघूर्णकः, ततश्चैवं सङ्घाटकयोगं कृत्वा भिक्षामटन्ति । 'आगंतुगभद्दएयरे'त्ति अथासौ ग्राम आगन्तुकानामेव भद्रकस्ततः 'इयरेत्ति वास्तव्या 'बाहिं'ति बहिर्गामे हिण्डन्ति, आगन्तुका वा बहिर्गामे हिण्डन्ति वास्तव्यभद्रके सति ग्रामे । उक्त साधर्मिकद्वारम् , इदानीं वसतिद्वारं प्रतिपादयन्नाह
८८॥