SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ रादि 'शोधयित्वा' कृत्वेत्यर्थः, अत्तोऽपराह्नसमये आगच्छन्ति, येन. वास्तव्यानां भिक्षाटनाद्याकुलत्वं न भवति, वास्तव्या अपि कुर्बम्ति, किमित्यत आह- 'अब्भुट्ठाण'ति तेषां प्रविशतामभ्युत्थानादि कुर्वन्ति 'दंडादिताण गहणं'ति दण्डकादीनां ग्रहणं कुर्वन्ति, कथं ? - ' एगवयणेणं'ति एकेनैव वचनेन उक्ताः सन्तः पात्रकादीन् समर्पयन्ति, वास्तव्ये नोक्ते मुश्वस्वेति ततश्च मुञ्चन्ति, अथ न मुञ्चत्येकवचनेन ततो न गृह्यन्ते, मा भूत् प्रमाद इति ॥ खुडलविगतेणा उन्हं अवरण्हि तेण उ पएवि । पक्खितं मोत्तूर्णं निक्विवमुक्खित्तमोहेणं ॥ २१२ ॥ यदा तु पुनस्तैः साधुभिरभिप्रेतो ग्रामः स क्षुल्लको न तत्र भिक्षा भवति ततश्च प्रत्यूषत्येबागच्छन्ति, 'चिगिट्ठ'सि विकटमध्वानं यत्र साधर्मिकास्तिष्ठन्ति ततः प्रत्यूषस्येवागच्छन्ति 'तेण'त्ति अथ ततः अपराहे आगच्छतां स्तेनभयं भवेत्ततश्च प्रत्यूषस्येवागच्छन्तीति । उष्णं वा अपराहे आगच्छतां भवति यतोऽतः प्रत्यूषस्येवागच्छन्ति । एवं ते प्रत्यूषसि तस्माद् ग्रामात्प्रवृत्ताः साधुभोजनकाले प्राप्ताः साधर्मिकसमीपं निषेधिकां कृत्वा प्रविशन्ति । ततश्च तेषां प्रविशतां वास्तव्यसाधुभिः किं कर्त्तव्यमित्यत आह- 'पक्खितं मोत्तणं ति प्रक्षिप्तं - आस्यगतं मुखे प्रक्षिप्तं कवलं मुक्त्वा 'निक्खिवमुक्खित्तं' ति यदु क्षिप्तं भाजनगतं तत् 'निक्षिपन्ति' मुञ्चन्ति नैषेधिकीश्रवणानन्तरमेव, ततस्ते प्राघूर्णकाः 'ओघेणं' ति सङ्क्षेपेण आलोचनां प्रयच्छन्ति । ततो भुञ्जते मण्डल्यां सा चेयम् - अप्पा मूलगुणेसुं विराहणा अप्प उत्तरगुणेसुं । अप्पा पासत्थाइसु दाणग्गहसंपओगोहा ॥ २९३ ॥ अल्पा मूलगुणेषु, एतदुक्तं भवति - मूलगुणविषया न काचिद्विराधना, अल्पा उत्तरगुणविषया विराधना, अल्पा पार्श्व
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy