SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ सह वियरे ॥१॥"त्ति यो विधिरुक्तः, अयं च द्वितीयाद्याचार्येष्वप्यागतेषु द्रष्टव्य इति । एवं तावद्विहरितक्षेत्रे यत्र साधषु |तिष्ठत्सु यो विधिः स उक्तः, इदानीमविहरिते क्षेत्रे साधुरहिते च यो विधिस्तत्प्रतिपादयन्नाह चेइअवंदनिमंतण गुरूहिं संदिट्ठ जोवऽसंदिहो। निबंध जोगगहणं निवेय नयणं गुरुसगासे ॥१०॥(भा०)। हा एवं विहरन्तः क्वचिदामादौ प्राप्ताः, तत्र च यदि सञ्जी विद्यते ततश्चैत्यवन्दनार्थमाचार्यो ब्रजति, ततश्च श्रावको गृहागतमाचार्य निमन्त्रयति, यथा-प्रायोग्यं गृहाण, ततश्च यो गुरुसंदिष्टः स गृह्णाति । 'जो वऽसंदिहोत्ति यो वा 'असंदिष्टः' अनुक्तः स वा गृह्णाति श्रावकनिर्बन्धे सति, एतदुक्तं भवति-योऽसावाचार्येण संदिष्टः स यावन्नागच्छत्येव तावत्तेन श्रावकेणान्यः सङ्घाटको दृष्टः, स च निर्बन्धग्रहणे कृते सति योग्यग्रहणं-प्रायोग्योपादानं करोति । ततश्च 'निवेयण ति अन्येभ्यः। सङ्घाटकेभ्यो निवेदयति, यथा यदुत मया श्रावकगृहे प्रायोग्यं गृहीतं न तत्र भवद्भिः प्रवेष्टव्यम् । ततश्च 'नयणं गुरुस-18 गासे'त्ति तत्प्रायोग्यं गृहीत्वा गुरुसमीपं नयति तत्क्षणादेव येनासावुपभुत इति । इदानीं यदुक्तं प्राक् “अविहरिअविही इमो होति"त्ति, तद्व्याख्यानयन्नाहअविहरिअमसंदिट्ठो चेइय पाहुडिअमेत्त गेण्हति । पाउग्गपउरलंभे नऽम्हे किं वा न भुजंति ? ॥१०१(भा०) | अविहरिते ग्रामादौ असंदिष्टा एव सर्वे भिक्षार्थ प्रविष्टाः, तत्र च भिक्षामटन्तः श्रावकगृहे प्रविष्टाः, तत्र च 'चेइए'त्ति चैत्यानि च वदन्ते, तत्र च 'पाहुडिअमेत्तं गिण्हन्ति' प्राभृतिकामात्रं यदि तत्र लभ्यते ततो गृह्णन्त्येव, अथाचार्यप्रायोग्य लभ्यते प्रचुरं वा लभ्यते ततः 'पाउग्गपउरलंभे सति इदमुच्यते 'णऽम्हे'त्ति न वयमाचार्यप्रायोग्यग्रहणे निर्युक्ताः, किन्त्वन्ये, COOLORIRISANALOGA
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy