SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्रीओोघनिर्युक्तिः द्रोणीया : 11 28 11 यदि च चिरं तस्य व्युत्सृजतो जातं ततो योऽसौ द्वारे व्यवस्थितः साधुः सोऽन्यं द्वारे स्थापयित्वा साधुं पुनश्चासौ व्युत्सजन्तं 'पडिअरति'त्ति प्रतिजागर्त्ति - आगम्म पडिक्कतो अणुपेहे जाव चोदसवि पुछे । परिहाणिजा तिगाहा निद्दपमाओ जढो एवं ॥ २०८ ॥ सोsपि साधुः कायिकां व्युत्सृज्य आगत्य वसतौ 'पडिक्कतो त्ति ईर्यापथिकां प्रतिक्रान्तः सन् 'अणुपेहे' अनुगुणनं करोति, कियद्दूरं यावदत आह- 'जाव चोद्दसवि पुढे' यावच्चतुर्दश पूर्वाणि समाप्तानि यश्च साधुः सूक्ष्मानप्राणलब्धिसंपन्नः अथैवं न शक्नोति ततः 'परिहाणि जा तिगाहा' परिहाण्या गुणयति स्तोकं स्तोकतरमिति यावद्गाथात्रयं जघन्येन यद्वा तद्वा परिगुणयति सेहोऽपि । एवं च कृते विधौ निद्राप्रमादो 'जढो' परित्यक्तो भवति । अतरंतो व निवज्जे असंथरंतो अ पाउणे एकं । गद्दभदितेणं दो तिष्णि बहू जहसमाही ॥ २०९ ॥ अथासौ गाथात्रयमपि गुणयितुं न शक्नोति ततः 'णिवज्जेत्ति ततः स्वपित्येवेति । 'असंथरंतो अत्ति उत्सर्गतस्तावत्प्रावरणरहितः स्वपिति, अथ न शक्नोति यापयितुमात्मानं ततोऽसंस्तरमाणः प्रावृणोति एकं कल्पं द्वौ त्रीन् वा, तथाऽपि यदि शीतेन बाध्यते तदा बाह्यतोऽप्रावृतः कायोत्सर्ग करोति, ततश्च शीतव्याप्तोऽभ्यन्तरं प्रविशति, तत्र च प्रविष्टो निवातमिति मन्यते, तत्रापि स्थातुमशक्नुवन् कल्पं गृह्णाति, एवं द्वौ त्रींस्तावद्यावत्समाधानं जातम् । अत्र च गर्दभदृष्टान्तः, जहां मिच्छगद्दभो अणुरूवभारेण आरुविएण सो वहिउं नेच्छइ, ताहे जोऽवि अण्णस्स भारो सोवि चडाविज्जइ, अप्पणावि १ यथा म्लेच्छगर्दभोऽनुरूपभारेणारोपितेन स वोढुं नेच्छति, तदा योऽपि अन्यस्य भारः सोऽपि चटाय्यते, आमना कायिकीगमनं नि. २०६-२०९ ॥ ८४ ॥
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy