SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥७६॥ PRACUSAMAISSSSSS 'पण्णवण बहुतरगुण'त्ति पुनश्च तस्य प्रज्ञापना-प्ररूपणा क्रियते, तत्र रात्रिगमने बहवो गुणा दृश्यन्ते, बालवृद्धादयः सुखेन विहारगच्छन्ति रात्रौ, न तृषा बाध्यन्त इति, 'अणिच्छत्ति अथ तथाऽपि नेच्छति गमनम् 'बितिओ वत्ति द्वितीयस्तस्य दीयते रीतिः तदर्थ मुच्यत इति । 'उवही वत्ति उपधिस्तस्य दीयते जीर्णा, तदीयश्च शोभनो गृह्यत इति, मा भूत्तत्पार्चे स्थितमुपधिं नि. १७६ स्तेनका आच्छेत्स्यन्ति । इदानीमसावेकाकी यदि स्वपिति ततो दोषः प्रमादजनितस्ततश्चोपधिरुपहन्यते, उपहतश्चाकल्प्यो भा९१-९३ भवति, एतदेवाहसुवणे वीसुवघातो पडिबज्झंतो अ जो उ न मिलेजा।जग्गण अप्पडिबज्झण जइवि चिरेणंन उवहम्मे ९३ (भा०) स्वापे 'वीसुं' एकाकिनो निद्रावशे सति, को दोषः ?-'उवघाउ'त्ति तस्यैकाकिनः सुप्तस्य उपधिरुपहन्यते, स ह्येकाकी | स्वपन प्रमादवान् भवति ख्याद्यभियोगसंभवात् , ततश्च निद्रावर्श प्राप्तस्य उपधिरुपहन्यते, अतोऽकल्पनीयो भवति परिछापनीयश्चासौ । गच्छे तु स्वपतोऽपि नोपहन्यते, किं कारणम् ?, यतस्तत्र केचित्सूत्रपौरुषीं कुर्वन्ति, अन्ये द्वितीयप्रहरेऽर्था-1 नुचिन्तनं कुर्वन्ति, तृतीये तु प्रहरे आचार्य उत्तिष्ठति ध्यानाद्यर्थ, चतुर्थे तु प्रहरे सर्व एव भिक्षव उत्तिष्ठन्ति, ततश्च रात्रेनैंकोऽपि प्रहरः शून्यः ततो नोपहन्यते उपधिः, एकाकिनस्तु जागरणं नास्त्यत उपघातः । 'पडिबझंते व जो उ न मिलेज'त्ति प्रतिबध्यमानो वा ब्रजादिषु क्षीरयाचनेच्छया प्रतिबध्यमानो यो न मिलेत् तस्याप्युपहन्यते उपधिः । किं कारणम् ?,त एकाकिनः पर्यटनं नोक्तम् ?, एकाकी च पर्यटन् प्रमादभाग् भवति अतो ब्रजादिप्रतिबन्धेऽप्युपधिरुपहन्यते । यस्तु पुनजोंगर्ति तस्मिन् दिवसेऽभुक्तो न व्रजादिषु प्रतिबध्यते स एवंविधस्तस्मिन् दिवसे मिलन्नपि नोपधिमुपहन्ति । 'जइवि चि-18
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy