SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ रेणं'ति किं बहुना?, जाग्रन्निशि गोकुलादिषु वाऽप्रतिबध्यमानो यद्यपिचिरेण मिलति बहुभिर्दिवसैस्तथाऽप्युपधिस्तस्य नोपहन्यते, अप्रमादपरत्वात्तस्येति । इदानीं गच्छस्य गमनविधि प्रतिपादयन्नाह पुरओ मज्झे तह मग्गओ य ठायंति खित्तपडिलेहा । दाइंतुच्चाराई भावासण्णाइरक्खट्ठा ॥ १७७॥ . क्षेत्रप्रत्युपेक्षका एषु विभागेषु भवन्ति-केचन 'पुरतः' अग्रतो गच्छस्य, केचन मध्ये गच्छस्य, ते हि मार्गानभिज्ञाः 'मार्गतश्च' पृष्ठतश्च तिष्ठन्ति क्षेत्रप्रत्युपेक्षकाः। किमर्थ पुरत एव तिष्ठन्ति ?, 'दाइंतुच्चाराई' उच्चारप्रश्रवणस्थानानि दर्शयन्ति गच्छस्य, गच्छस्य भावासण्णादिरक्खट्टत्ति भावासण्णो-अणहियासओ, तद्रक्षणार्थम् , एतदुक्तं भवति-उच्चारादिना बाध्यमानस्य ते मार्गज्ञाः स्थण्डिलानि दर्शयन्ति । - डहरे भिक्खग्गामे अंतरगामंमि ठावए तरुणे । उवगरणगहण असहज ठावए जाणगं चेगं ॥ १७८॥ ___ 'डहरे भिक्खग्गामेत्ति यत्र ग्रामे वासकोऽभिप्रेतः भिक्षा च अटितुमभिप्रेता तस्मिन् 'डहरे' क्षुल्लके ग्रामे सति किं कर्त्तव्यमत आह-'अंतरगामंमि' अपान्तराल एव यो ग्रामस्तस्मिन् भिक्षार्थ तरुणान् स्थापयेत् , 'उवगरणगहणं ति तदीयमुपकरणमन्ये भिक्षवो गृह्णन्ति, 'असहू व ठावए'त्ति अथ ते तत्स्थापितेतरभिक्षुसत्कमुपकरणं ग्रहीतुं न शक्नुवन्ति ततोऽसहिष्णव एव तत्रान्तरग्रामे भिक्षार्थ स्थाप्यन्ते 'जाणगं गं'ति ज्ञं चैकं-मार्गझं चैकं तेषां मध्ये स्थापयेत् येन सुखेनैवागच्छन्ति दूरुट्टिअ खुडुलए नव भड अगणी य पंत पडिणीए । संघाडेगो धुवकम्मिओ व सुण्णे नवरि रिक्खा ॥ १७९॥ अथवाऽसौ वासकभिक्षार्थमभिप्रेतो ग्रामो दूरे स्थितः स्याद् उत्थितो वा-उद्वसितः क्षुल्लको वा प्राक् संपूर्णो दृष्टः
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy