________________
'संगारति सङ्केतोऽभिधीयतें, सद्विधिर्वक्तव्यः, 'बितिअ वसहि'त्ति द्वितीयें द्वारे वसतिः कर्तव्या, पूर्वप्रत्युपेक्षिता तस्या व्याघाते वा वसतेर्ग्रहणविधिर्वक्तव्यः, 'ततिए सणित्ति तृतीये द्वारे सज्ञी श्रावको वक्तव्यः, चउत्थ साहम्मित्ति चतुर्थे द्वारे साधर्मिका वक्तव्याः, "पंचमगंमि अ वसहि'त्ति पञ्चमे द्वारे वसतिर्वक्तव्या-'विच्छिण्णा खुड्डुलिआ' इत्येवमादि, छठे ठा-| णडिओ होति' षष्ठेद्वारे स्थानस्थितो भवति । द्वारगाथेयम् । इदानीं नियुक्तिकृतोपन्यस्तं सङ्गारद्वयं भाष्यकृद् व्याख्यानयन्नाहआओसे संगारो अमुई वेलाएँ निग्गए ठाणं । अमुगत्थ वसहिभिक्खं बीओ खग्गूडसंगारो॥९१ ॥(भा०) | - 'आओसेत्ति प्रदोषे 'संगारों त्ति सङ्केतः आचार्येण कर्त्तव्यः, कथम् ?-'अमुई वेलाए'त्ति अमुकया वेलया यास्यामः, पुनश्च 'निग्गए ठाणं अमुगत्थ' निर्गतानां सताम् अमुकत्र स्थान-विश्रामसंस्थानं करिष्यामः, 'वसहि'त्ति अमुकत्र वसतिर्भविष्यति-वासको भविष्यतीत्यर्थः, 'भिक्ख'त्ति अमुकत्र ग्रामे भिक्षाटनं कर्त्तव्यम् , एकस्तावदयं 'सङ्गारः' सङ्केतः ।। "बितिओ खग्गूडसंगारों'त्ति द्वितीयः सङ्केतः खग्गूडस्य दीयते । स चैवमाह
रतिं न चेव कप्पइ नीयदुवारे विराहणा दुविहा । पण्णवण बहुतरगुणे अणिच्छ बीउ उवहीवा ॥९२॥(भा०) SI 'रत्तिं न चेव कप्पति ति रात्रौ साधूनां गमनं न कल्पयति, द्विविधविराधनासंभवात् , यत उक्त दिवापि तावत्
'नीयदुवारे विराहणा दुविह'त्ति, दिवाऽपि तावदयं दोषः,"नीयदुवारं तमस, कोहग परिवजए" [नीचद्वार तामसं कोष्ठकं परिवर्जयेत् ] इतिवचनात् , नीचद्वारे द्विविधा विराधना सतमस्कत्वाद् आस्तां तावद्रात्रौं, एष चधर्मश्रद्धया नं निर्गच्छति।