________________
ष्ठानं च यत्सा प्रतिलेखना, सा च चोलपट्टादेरुपकरणस्येति 'गुत्तीओत्ति गोपनानि गुप्तयो-मनोवाक्कायरूपास्तिस्रः | 'अभिग्गह'त्ति अभिग्रहा द्रव्यादिभिरनेकप्रकाराः, चशब्दो वसत्यादिसमुच्चयार्थः, एवकारः क्रमप्रतिपादनार्थः, 'करणं तु'त्ति | क्रियत इति करणं, मोक्षार्थिभिः साधुभिर्निष्पाद्यत इत्यर्थः, तुशब्दो विशेषणे, मूलगुणसद्भावे करणत्वमस्य, नान्यथेति ।।
आह-ननु समितिग्रहणेनैव पिण्डविशुद्धगृहीतत्वान्न पिण्डविशुद्धिग्रहणं कर्तव्यं, यत एषणासमिती सर्वेषणा गृहीता, पिण्डविशुद्धिरप्येषणैव, तत्किं भेदेनोपन्यासः? इति, अत्रोच्यते, पिण्डव्यतिरेकेणाप्येषणा विद्यते वसत्यादिरूपा तस्या ग्रहणं भविष्यति, तत्र पिण्डविशुद्धेस्तु भेदेनोपन्यासः कारणे ग्रहणं कर्तव्यं नाकारणे इत्यस्यार्थस्य प्रतिपादनार्थः, अथवाऽऽहारमन्तरेण न शक्यते पिण्डविशुख्यादि करणं सर्वमेव कर्तुमतो भेदेनोपन्यास इति । अत्राह-चरणकरणयोः कः प्रतिविशेषः ? इति, अत्रोच्यते, नित्यानुष्ठानं चरणं, यनु प्रयोजन आपन्ने क्रियते तत्करणमिति, तथा च व्रतादि सर्वकालमेव चर्यते न पुनव्रतशून्यः कश्चित्काल इति, पिण्डविशुद्ध्यादि तु प्रयोजने आपन्ने क्रियत इति । एवं व्याख्याते सत्याह परः"ओहेण उ निजुत्तिं वुच्छं चरणकरणाणुओगस्स” इत्येवं वक्तव्यं, तत्किमर्थ षष्ठयुल्लनं कृत्वा पञ्चम्यभिधीयते, इत्यस्यार्थस्य प्रतिपादनार्थमिदं गाथासूत्रमाह|चोदगवयणं छट्ठीसंबंधे कीसन हवइ विभत्ती? तो पंचमी उ भणिया, किमथि अन्नेऽवि अणुओगा ॥४॥(भा०) | व्याख्या-'चोदग'त्ति चोदकवचनं, किंभूतम् ?, तदाह-षष्ठी संबन्धे किमिति न भवति विभक्तिः?, संबन्धनं संबन्धस्तस्मिन् संबन्धे षष्ठी किमिति न भवति ?, एतदुक्तं भवति-चरणकरणानुयोगसंबन्धिनीमोपनियुक्तिं वक्ष्य इति वाच्यं, तदुल्लङ्घन
ASSASAASAASAASAASAS