________________
*
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
करणसप्ततिः भा.
*****
*ISRASSSSSS
श्चायं न्यायो यथा-ब्राह्मणा आयाता वशिष्ठोऽप्यायातः, अत्र हि ब्राह्मणग्रहणेन वशिष्ठस्यापि ग्रहणं कृतमेव, तथाऽपि प्राधान्यात्तस्य भेदेनोपन्यासः क्रियत इति, तथा यच्चोतं-तपोग्रहणे वैयावृत्त्यविनययोर्न ग्रहणं कर्तव्यं, तदप्यचारु, वैयावृत्त्यविनययोर्यथा स्वपरोपकारकत्वात्प्राधान्यं नैवमनशनादीनां तपोभेदानामिति, यच्चोक्त-श्रमणधर्मग्रहणे क्रोधादिनिग्रहस्य नोपन्यासः कर्त्तव्यः, तदप्यचारु, इह द्विरूपः क्रोधः-उदयगत उदीरणावलिकागतश्च, तत्रोदयगतनिग्रहः क्रोध| निग्रहः, एवं मानादिष्वपि वाच्यं, यस्तु उदीरणावलिकाप्राप्तस्तस्योदय एव न कर्तव्यः क्षान्त्यादिभिर्हेतुभिरिति, अथवा | त्रिविधं वस्तु-ग्राह्यं हेयमुपेक्षणीयं च, तत्र क्षान्त्यादयो ग्राह्याः, क्रोधादयो हेयाः, अतो निग्रहीतव्यास्त इत्येवमर्थमित्थमुपन्यस्ता इति स्यात्साधु सर्वमेवैतद्गाथासूत्रमिति ॥ अधुना करणावयवप्रतिपादनार्थमिदं गाथासूत्रमाहपिंडं विसोही समिई भावण पडिमी य इंदिय निरोहो। पडिलेहंणगुत्तीओ अभिग्गहा चेव करणं तु ॥३॥(भा०)। __ अस्या व्याख्या-'पिंड'त्ति पिण्डन पिण्डस्तस्य विविधम्-अनेकैः प्रकारैः शुद्धिः आधाकर्मादिपरिहारप्रकारैः पिण्डवि-13 शुद्धिः, सा किम् ?, करणं भवतीति योगः, 'समिति'त्ति सम्यगितिः-सम्यग्गमनं प्राणातिपातवर्जनेनेत्यर्थः, जातावेकवचनं, ताश्चेर्यासमित्यादयः समितयः, 'भावण'त्ति भाव्यन्त इति भावनाः-अनित्यत्वादिकाः 'पडिम'त्ति प्रतिमाः-अभिग्रहप्रकारा मासाद्या द्वादश भिक्षुप्रतिमाः, चशब्दाद्भद्रादयश्च प्रतिमा गृह्यन्ते, 'इंदियनिरोहोत्ति इन्द्रियाणि-स्पर्शनादीनि तेषां निरोधः, आत्मीयेष्टानिष्टविषयरागद्वेषाभाव इत्यर्थः, 'पडिलेहण' इति प्रतिलेखन प्रतिलेखना 'लिख अक्षर विन्यासे' अस्य है प्रतिपूर्वस्य ल्युडन्तस्यानादेशे टापि च विहिते प्रतिलेखनेति भवति, एतदुक्तं भवति-अक्षरानुसारेण प्रतिनिरीक्षणमनु
*
*