________________
HASKARNATAKAMANAS
धनिग्रहादि, चरणमेतत् । एवं व्याख्याते सत्याह परः-ननु व्रतान्तर्गतत्वाद् गुप्तयो न पृथक् कर्तव्याः, अथ परिकरभूताश्चतुर्थव्रतस्य ब्रह्मचर्यगुप्तयोऽभिधीयन्ते, एवं तर्खेकैकस्य व्रतस्य परिकरभूता भावना अपि वाच्याः, न च ज्ञानादित्रयस्य ग्रहणं कर्तव्यं, अपि तु ज्ञानसम्यग्दर्शनयोरेवोपन्यासः कर्तव्य इति, चारित्रस्य व्रतग्रहणेनैव ग्रहणात् , तथा श्रमणधर्मग्रहणेन संयमग्रहणं तपोग्रहणं चातिरिच्यते, संयमतपसी वोद्धृत्य श्रमणधर्मस्योपन्यासः कर्तव्यः, तथा तपोग्रहणे च सति वैयावृत्त्यस्योपन्यासो वृथा, चशब्दसमुच्चितस्य च विनयस्य, वैयावृत्त्यविनययोस्तपोऽन्तर्गतत्वात्, तथा क्षान्त्यादिधर्मग्रहणे च सति क्रोधादिनिग्रहग्रहणमनर्थक, तदियं सर्वैव गाथा प्रलूनविशीर्णेति तत्कथमेतत् ? इति, अत्रोच्यते, अविज्ञायैव परमार्थमेवं चोद्यते, यदुक्तं-व्रतग्रहणे ब्रह्मगुप्तिज्ञानादित्रयोपन्यासो न कर्तव्यः तत्तावत्परिहियते-यदेतद्वतचारित्रं स एकांशो | वर्तते चारित्रस्य, सामायिकादि च चारित्रं चतुर्विधमगृहीतमास्ते तद्भहणार्थ ज्ञानादित्रयमुपन्यस्त, व्रतग्रहणे ब्रह्मचर्यगुप्सयो यदभिधीयन्ते तद्ब्रह्मचर्यस्य निरपवादत्वं दर्शयति, तथा चोक्तम्-"नवि किंचिवि पडिसिद्धं नाणुनायं च जिणवरिंदेहिं । मुत्तुं मेहुणभावं न विणा तं रागदोसेहिं ॥१॥” अथवा पूर्वपश्चिमतीर्थकरतीर्थयोर्भेदेनैतत् महाव्रतं भवति, अस्यार्थस्य प्रतिपादनार्थ भेदेनोपन्यासः कृत इति, यच्चोक्तं-श्रमणधर्मग्रहणे संयमतपसोर्न ग्रहणं कर्तव्यम् , श्रमणधर्मग्रहणेनैव गृहीतत्वात्तयोः, तदप्यसाधु, संयमतपसोः प्रधानमोक्षाङ्गत्वात् , कथं प्रधानत्वम् ? इति चेत् अपूर्वकर्माश्रवसंवरहेतुः संयमो वर्तते, पूर्वगृहीतकर्मक्षयहेतुश्च तपः, ततः प्रधानत्वमनयोः, अतो गृहीतयोरप्यनयोर्भेदेनोपन्यासः कृतः, दृष्ट
१ नापि किचिदपि प्रतिषिद्धं नानुज्ञातं च जिनवरेन्द्रैः । मुक्त्वा मैथुनभावं न बिना तद् रागद्वेषाभ्याम् ॥॥