________________
श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः
॥ ५॥
न्तभेदपक्षे एकार्थिकानि युज्यन्ते, कथम् ?, यस्य ह्येकान्तेनैव सर्वे भावाः सर्वथा भिन्ना वर्तन्ते तस्य हि यथा घटशब्दात्पटशब्दो भिन्नः एवं कुटशब्दोऽपि भिन्न एव तत्कथं घटशब्दस्य कुटशब्द एकार्थिको युज्यते ?, एकार्थिकत्वं हि कथञ्चिद्भेदे भवतीति एवमेकान्ताभेदवादिनोऽपि न युज्यन्ते एकार्थिकानि, कथम् ?, यस्य ह्यभेदेन सर्वे भावा व्यवस्थितास्तस्य यथा घटशब्दस्य घटशब्दोऽभिन्न एकार्धिको न भवति एवं कुटादयोऽपि न युज्यन्ते, अभिन्नत्वात् इत्यलं चसूर्येति ॥ १ ॥ अधुना चरणपदव्याख्यानार्थमिदं गाथासूत्रमाह
वयं समधम्म संजम वेर्यावञ्चं च वंभगुत्तीओ । नाणाइतियं तंत्र कोहनिग्गहाई चरणमेयं ॥ २ ॥ ( भा० )
व्याख्या - भवतीति क्रियाऽनुवर्तते, व्रतादि चरणं भवतीति योगः, व्रतानि-प्राणातिपातादिनिवृत्तिरूपाणि 'समणधम्म'त्ति श्रमणाः - साधवो धारयतीति धर्मः श्रमणानां धर्मः - क्षान्त्यादिकञ्चरणं भवतीति सर्वत्र मीलनीयम् । 'संजमे 'ति सम्एकीभावेन यमः संयमः, उपरम इत्यर्थः, स च प्रेक्षोत्प्रेक्षादिरूपः सप्तदशप्रकारः 'वेयावच्च' इति व्यावृत्तस्य भावो वैयावृत्त्यं, आचार्यादिभेदादशप्रकारं, चशब्दः समुच्चये, किं समुच्चिनोति ?, विनयश्च, 'बंभगुत्तीओ'त्ति ब्रह्म इति ब्रह्मचर्य तस्य गुप्तयो ब्रह्मचर्यगुप्तयः चर्यशब्दलोपादेवमुपन्यासः कृतः, ताश्च वसत्यादिका नव ब्रह्मचर्यगुप्तयः, 'नाणाइतियं'ति ज्ञायतेऽनेनेति ज्ञानम् - आभिनिवोधिकादि तदादिर्यस्य ज्ञानादित्रयस्य तत् ज्ञानादि, आदिशब्दात् सम्यग्दर्शनचारित्रपरिग्रहः, ज्ञानादि च तत्रिकं च ज्ञानादित्रिकम् 'तव' इति तापयतीति तपो- द्वादशप्रकारमनशनादि 'कोहनिग्गहाइ' इति 'क्रुध कोपे' क्रोधनं क्रोधः, निग्रहणं निग्रहः, क्रोधस्य निग्रहः क्रोधनिग्रहः स आदिर्यस्य मानादिनिग्रहकदम्बकस्य तत्क्रो
चरणस
प्ततिः
भा. २
॥ ५॥