SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ | आहोस्वित्पूर्वस्वभावात्यागेनेति वाच्यम् ?, यदि पूर्वस्वभावत्यागेन ततोऽनित्यत्वप्रसङ्गः, अतादवस्थ्यमनित्यतां ब्रूमः, अथ पूर्वस्वभावात्यागेन, एवं तर्हि न कदाचिदपि तेन द्वितीया क्रिया कर्तव्येति, एवं प्रतिपादितेऽनित्यतावाद्याह- अत एवास्माकं दर्शने क्त्वाप्रत्ययो घटत इति, एतदप्यचारु, यस्य क्षणिकं वस्तु तस्य कथं क्त्वाप्रत्ययो युज्यते ?, उत्पत्त्यनन्तरं ध्वंसात् कथमेक एव कर्ता क्रियाद्वयं करोति ?, येन हि प्राक्तनी क्रिया निष्पादिता सोऽन्य एव, योऽपि चोत्तरां क्रियां करोति सोऽपि चान्य एव, तत एकान्तानित्यवादेऽपि न घटते क्त्वाप्रत्यय इति ॥ अयं तावत्समुदायार्थः, अधुना भाष्यकृदेकैकमवयवं व्याख्यानयति - तत्र 'तत्त्वभेदपर्यायैर्व्याख्येति पर्यायतो व्याख्यां कुर्वन्निदं गाथासूत्रमाहओहे पिंड समासे संखेवे चेव होंति एगट्ठा। निज्जुत्तत्ति य अत्था जं बद्धा तेण निजुक्ती ॥ १ ॥ ( भा० ) ओघः पिण्डो भवतीति योगः, पिण्डनं पिण्डः, संघातरूप इत्यर्थः, 'समासे' इति समसनं समासः, 'असु क्षेपणे' सम्एकीभावेनासनं क्षेपणमित्यर्थः, तथा च समासेन सर्व एव विशेषा गृह्यन्ते, ओघः समासो भवतीति योगः, एवं भवतीति क्रिया सर्वत्र मीलनीया । 'संखेवे' इति संक्षेपणं संक्षेपः सम्-एकीभावेन प्रेरणमित्यर्थः, चशब्द उक्तसमुच्चये, कदाचिदनुक्तसमुच्चये, एवंशब्दः प्रकारवाचकः, एवमेतेषामपि पिण्डादीनां ये पर्यायास्ते मीलनीया इति । निर्युक्तिपदव्याख्यानार्थमाह - 'निज्जुत्तत्ति य' इत्यादि, निः- आधिक्ये योजनं युक्तिः, आधिक्येन युक्ता निर्युक्ताः अर्यन्त इत्यर्थाः गम्यन्त इत्यर्थः, ततो निर्युक्ता इति चाऽर्था यद् यस्माद्वद्वास्तेन निर्युक्तिरभिधीयते । अथवाऽन्यथा - निश्चयेन युक्ता निर्युक्तिरिति चार्थाः यद्वद्धास्तेन निर्युक्तिरभिधीयते, इत्ययं गाथार्थः । एकार्थिकप्रतिपादनेन च एकान्तभेदाभेदवादौ व्युदस्येते, नैका
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy