________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
मङ्गलादि नि. १-२
॥४॥
नियुक्तिं वक्ष्ये, चरणकरणात्मिकामेवेति गम्यते, यथा मृदो घटं करोति मृदात्मकमेव, तद्वदत्रापीति । अथवा चरणं च तत्करणं च २ तस्यानुयोगस्तस्माच्चरणकरणानुयोगात् नियुक्तिं वक्ष्य इति, तदनेनावयवेनाभिधेयमुक्त, चरणकरणनियुक्तिरभिधेयेति । किंस्वरूपां नियुक्तिं वक्ष्ये ? इत्यत आह–'अल्पाक्षरां' अल्पान्यक्षराणि यस्यां साऽल्पाक्षरा तामल्पाक्षराम् , अथवा क्रियाविशेषणमेतत् , कथं वक्ष्ये ? इत्यत आह-अल्पाक्षरं' स्तोकाक्षरं वक्ष्ये, न प्रभूताक्षरमित्यर्थः । किमल्पाक्षरमेव ?, नेत्याह-| 'महत्थं' महाथै वक्ष्ये, अथवा महानर्थो यस्याः सा महार्था तां महार्थी वक्ष्ये, तदनेनाभिधेयविशेषणं प्रतिपादितं भवति । |'अल्पाक्षरां महार्थी' इत्यनेन चतुर्भङ्गिका प्रतिपादिता भवति, एकमल्पाक्षरं प्रभूतार्थं भवति १, तथा अन्यत् प्रभूताक्षरमल्पार्थ २, तथा प्रभूताक्षरं प्रभूतार्थ ३, अल्पाक्षरमल्पार्थ ४ चेति । किंनिमित्तं वक्ष्ये ? इत्यत आह–'अनुग्रहार्थ' अनुग्रह-उपकारोऽभिधीयते, अर्थशब्दः प्रयोजनवचनः, तत उपकारप्रयोजनं वक्ष्ये, तदनेन प्रयोजनं प्रतिपादितं द्रष्टव्यम् । केषां वक्ष्ये ? इत्यत आह-सुविहितानां' शोभनं विहितम्-अनुष्ठानं येषामिति ते सुविहिताः-साधवस्तेषां सुविहितानामनुग्रहार्थमोपनियुक्तिं वक्ष्य इति योगः । तदनेन गाथासूत्रेण परोपन्यस्ता हेतवो निराकृता भवन्ति । के च हेतवः?, निःसंबन्धत्वादय इति । यश्चायं क्त्वाप्रत्यय उपन्यस्तस्तेन नित्यानित्यैकान्तवादयोरसारता प्रतिपादिता भवति, कथम् ?-न नित्यवादे क्त्वाप्रत्ययो युज्यते न वाऽनित्यवादे, किंतु नित्यानित्यवाद एवायं घटत इति, नित्यवादे तावन्न घटते, एक कृत्वा ह्यपरकरणं क्रमः, क्त्वाप्रत्ययश्च विशिष्टपूर्वार्थोऽभिधीयते, 'समानकर्तृकयोः पूर्वकाले क्त्वे' (पा० ३-४-२१) ति वचनात् , नित्यवादे चाप्रच्युतानुत्पन्नस्थिरैकस्वभावं वस्तु, तच्च किं तावत् पूर्वस्वभावत्यागेन द्वितीयां क्रियां करोति