________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
ततो गृहात् तेऽप्यनाख्याय गताः ततश्च शङ्कोपजायते, 'जं चण्णं ति यच्चान्यत् शङ्कादि जातं पत्तनगतं तत्सर्वमुप- शय्यातराजायत इति गच्छद्भिश्च शय्यातर आपृच्छनीयः॥ स च विधिना, यतोऽविधिना पृच्छत एते दोषाः
पृच्छादि अविहीपुच्छा उग्गाहिएण सिज्जातरी उ रोएज्जा । सागारियस्स संका कलहे य सएजिआ खिसे ॥१६७॥18 नि. १६६.
अविधिपृच्छा इयं वर्तते, यदुत-'उग्गाहितेन' उत्क्षिप्तेन उपकरणेन पृच्छति, तत्र 'सेज्जातरी उ रोएज्जा' तेनाकस्मिकेन गमनेन शय्यातर्यो रोदनं कुर्युः, ततश्च 'सागारिकस्य' शय्यातरस्य शङ्कोपजायते, कलहे च सति 'सइजिआए' सह सखिक्रियया 'खिंस'त्ति यथा न शोभना त्वं येन त्वया तत्र काले भिक्षोर्गच्छतो रुदितं, किं च-ते स पिता भवति? येन रोदिषीति । अथानागतमेव कथयन्ति-अमुकदिवसे गमिष्यामः, तत्राप्येते दोषाःहरिअच्छेयण छप्पइय घचणं किचणं च पोत्ताणं । छण्णेयरं च पगयं इच्छमणिच्छे य दोसा उ॥१६८॥ तद्धि शय्यातरकुटुम्ब साधवो यास्यन्तीति विमुक्तशेषव्यापारं सत् गृह एव तिष्ठति, कृष्यादिप्रतिजागरणं न करोति, ततश्च क्षणिकं सत् स्वगृहजातहरितच्छेदं करोति । तथा निर्व्यापारत्वादेव च ता रण्डाः षट्पदीनां परस्परनिरूपणेनोपमर्द कुर्वन्ति । 'किच्चणं च पोत्ताणं ति तत्र दिवसे क्षणिका विमुक्तकृषिलवनव्यापारा वस्त्राणि शोधयन्ति । 'छण्णेयरं च पगयं' प्राकृतं-भोजनं छन्नं कुर्वन्ति, अप्रगटमित्यर्थः, 'इतरं वत्ति प्रकटमेव भोजनं संयतार्थ कुर्वन्ति, तत्र चेच्छताम-13 निच्छतां च दोषा भवन्ति, कथं ?, यदि तभोजनं गृह्णन्ति ततस्तदकल्पनीयम् , अथ न गृह्णन्ति ततो रोषभावं कदाचिप्रतिपद्यते । एते दोषा अनागतकथने, ततश्च कः पृच्छाविधिरित्याह
**AICAISRISICOA G