SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ BREARCHANAKARE भवति, एवमेतद्यथासङ्ग्य योजनीयम् । 'पणगं तो एक दो तिण्णि' एवमसौ तस्मिन् क्षेत्रे पञ्चकमेकं धार्यते, अथ तथाऽपि बलं न गृह्णाति द्वौ पञ्चको धार्यते, त्रीन् वा पञ्चकान् धार्यते, पुनरानीयत इति । एवं ते आलोचितशिष्यगणा आचार्याः शय्यातरमापृच्छय क्षेत्रान्तरं संक्रामन्ति । अथ न पृच्छन्ति ततो दोष उपजायते । एतदेवाहसागरिअपुच्छगमणं बाहिरा मिच्छ छेय कयनासी।गिहि साहू अभिधारण तेणगसंकाइ जं चऽणं ॥१६६ ॥ ___ 'सागारिक' शय्यातरं अनापृच्छच यदि गमनं क्रियते ततो 'बाहिर'त्ति बाह्या लोकधर्मस्यैते भिक्षवः इत्येवं वक्ति शय्यातरः, ये च धर्म लोकधर्म न जानन्ति दृष्टं ते कथमदृष्टं जानन्ति ? इत्यतः 'मिच्छत्ति मिथ्यात्वं प्रतिपद्यते, 'छेद'त्ति | अपच्छेदो वसतिदानस्य, पुनस्तेऽन्ये वा वसतिं न लभन्ते, 'कतणासि'त्ति अकृतज्ञा ह्येते प्रव्रजिता इत्येवं मन्यते, गिहिर साधू अभिधारण'त्ति गृही कश्चिच्छ्रावकस्तमाचार्यमभिधार्य-संचिन्त्यायातः प्रव्रज्यार्थ, तेनाप्यागत्य शय्यातरः पृष्टःकाचार्यः १, सोऽपि रुष्टः सन्नाह-यः कथयित्वा ब्रजति स ज्ञायते, तं तु को जानाति ?, तमाकर्ण्य स श्रावकः कदाचिद्दर्शनमप्युज्झति, लोकज्ञानमप्येषां नास्ति कुतः परलोकज्ञानमिति?, कदाचित्साधुः कश्चित्तमाचार्य अभिधार्य-मनसि कृत्वा उपसंपदादानार्थमायाति, सोऽपि शय्यातरं पृच्छति, शय्यातरोऽप्याह-न जाने क्व गत इति, ततः स साधुः अनाचारवानाचार्य इति विचिन्त्यान्यत्र गतः, सोऽपि निर्जराया आचार्योऽनाभागी जात इति । तेणग'त्ति कदाचित्तद्गृहं केनचित्तस्मिठान्नेव दिवसे मुष्टं भवेत्तत एवंविधा बुद्धिर्भवेत्-यदुत स्तेनास्ते इत्येवं शङ्कां करोति, आदिशब्दाद्योषित् केन केचित्सह गता
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy