SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥७१॥ कालं भवतीत्यर्थः । आह-एवं तर्हि यत्र भिक्षा न लभ्यते तत्र प्रयान्तु, उच्यते, 'दुर्बलदेह' कृशशरीरो न साधयति-नाराधयति है आचायण |'योगान् व्यापारान् यतस्ततो मध्यमबलाः साधव इष्यन्ते । दुष्टाश्वेन चात्र दृष्टान्तः, दुष्टाश्वो-गर्दभ उच्यते, स यथा गच्छपृच्छप्रचुरभक्षणाद्दर्पिष्टः सन् कुम्भकारारोपितभाण्डकानि भनक्ति दर्पोत्सेकादुत्प्लुत्य, पुनस्तेनैव कुम्भकारेण निरुद्धाहारः सन्नति नं नि.१६० दुर्बलत्वात्प्रस्खलितः सन् भनक्ति, स एव च गर्दभो मध्यमाहारक्रियया सम्यग् भाण्डानि वहति, एवं साधवोऽपि संयम ग्लानबलक्रियां मध्यमबला वहन्ति । | पणपण्णगस्स हाणी आरेणं जेण तेण वा धरइ । जइ तरुणा नीरोगा वचंति चउत्थगं ताहे ॥१६३ ॥ नि. १६५ अथ तस्मिन् गच्छे पञ्चपञ्चाशद्वर्षदेशीयाः त्रिंशद्वर्षाः चत्वारिंशद्वर्षा वा भवन्ति, ततो गम्यते चतुर्थ क्षेत्रं, यतस्ते येन केनचिद्रियन्ते-यापयन्ति (प्यन्ते) । तथा यदि च तरुणा 'नीरोगाः' शक्तां भवन्ति ततश्चतुर्थमेव क्षेत्रं व्रजन्ति । अह पुण जुण्णा थेरा रोगविमुक्का य असहुणो तरुणा। ते अणुकूलं खेत्तं पेसंति न यावि खग्गूडे ॥ १६४॥ | । अथ पुनर्जूर्णा (जीर्णाः) स्थविरा भवन्ति रोगेण च-ज्वरादिना मुक्तमात्रास्तरुणाः, नाद्यापि येषां साम्यं भवति शरीरस्य, ततस्ताननुकूल क्षेत्र प्रेषयन्त्याचार्याः । 'न यावि खग्गूडे 'त्ति 'खग्गूडा' अलसा निर्द्धर्मप्रायास्तान प्रेषयन्ति । कियता| |पुनः कालेन वृद्धादय आप्याय्यन्ते ?, उच्यते, पञ्चमात्रैर्दिवसः, यत उक्तं वैद्यके___ एगपणअद्धमासं सट्ठी सुणमणुयगोणहत्थीणं । राइदिएण उ बलं पणगं तो एक दो तिनि ॥ १६५ ॥ ॥१॥ एकेन रात्रिन्दिवेन शुनो बलं भवति, पञ्चभिर्दिनर्मनुजस्य बलं भवति, अर्द्धमासेन बलीवर्दस्य, षष्टिभिर्दिनैर्हस्तिनो बलं
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy