SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 'नियमात्' अवश्यं 'इहरावित्ति अप्रार्थितेऽपि यदृच्छया त्रिकालयोग्य प्रातमध्याह्नसायालेषु त्रिकालमपि 'सबेसि'ति 'सर्वेषां । बालादीनां योग्यं प्राप्यत इति । एवं तैः सर्वैः क्षेत्रप्रत्युपेक्षकैराख्याते सत्याचार्यः किं करोतीत्याह- . मयगहणं आयरिओकत्थ वयामो त्ति तत्थ ओयरिआ।खुभिआ भणंति पढमंतं चिअअणुओगतत्तिल्ला १६० 'मतग्रहणं' अभिप्रायग्रहणं आचार्यः शिष्याणां करोति, यदुत भो आयुष्मन्तः! तत्व जामः?-कया दिशा गच्छामः? तत्रैवमामन्त्रिते शिष्यगणे आचार्येण 'तत्र औदरिका' उदरभरणैकचित्ताः 'क्षुभिताः' आकुला भणन्ति-यदुत 'पढमति प्रथमां दिशं व्रजामः, यत्र प्रथमपौरुष्यां भुज्यते, 'तं चिय'त्ति तामेव दिशं 'अणुओगतत्तिल्ला' व्याख्यानार्थिन इच्छन्ति, यतस्ते सूत्रग्रहणनिरपेक्षाः केवलमर्थग्रहणार्थिनः, ते चार्थग्रहणप्रपञ्चो द्वितीयायां पौरुष्यां भवतीत्यतस्तामेवेच्छन्तीति ॥ बिइयं सुत्तग्गाही उभयग्गाही अ तइययं खेत्तं । आयरिओ अ चउत्थं सो उपमाणं हवइ तत्थ ॥१६१॥ द्वितीयां च दिशं सूत्रग्राहिण इच्छन्ति, यतः प्रथमपौरुष्यामेव स्वाध्यायो भवति, स च तेषामस्ति, 'उभयग्राहिणश्च' सूत्रार्थग्राहिणस्तृतीयं क्षेत्रमिच्छन्ति, आचार्यस्तु चतुर्थ क्षेत्रमिच्छन्ति, यतस्तत्र चतुर्थ्यामपि पौरुष्यां प्राघूर्णकादेः प्रायोग्य लभ्यत इति, स एव प्रमाणं' आचार्य एव सर्वेषां प्रमाणं भवति 'तत्थे ति तत्र शिष्यगणमध्ये, किं पुनः कारणं आचार्याश्चतुर्थमेव क्षेत्रमिच्छन्ति ?, अत आह मोहुम्भवो उ बलिए दुबलदेहो न साहए जोए । तो मज्झबला साहू दुट्ठऽस्सेणेत्थ दिलुतो ॥ १६२॥ प्रथमद्वितीययोः क्षेत्रयोः प्रचुरभक्तपानकेभ्यः सकाशाद्बलवान् भवति, बलिनश्च मोहोद्भवो भवति-कामोद्भवो
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy