________________
दियराउऽपचवाए य जाणई सुगमदुग्गमे काले । भावे सपक्खपरपक्खपेल्लणा निण्हगाईया ॥७५॥ (भा०) | दिवा प्रत्यपायो रात्री वा प्रत्यपायो न वा प्रत्यपाय इत्येतज्जानाति, तथा दिवाऽयं पन्थाः सुगमो दुर्गमो वा रात्री वा सुगमो दुर्गमो वा एवं यत्परिज्ञानं सा कालतः प्रत्युपेक्षणा । द्वारम् । भावतः प्रत्युपेक्षणा इयं, यदुत स विषयः स्वपक्षण परपक्षेण वाऽऽक्रान्तो-व्याप्तः, कश्चासौ स्वपक्षः परपक्षश्चात आह-'निण्हगाईया' निह्नवकादिः स्वपक्षः, आदिग्रहणाच्चरकपरिव्राजकादिः परपक्षः, एभिरनवरतं प्रार्थ्यमानो लोको न किञ्चित् दातुमिच्छति इत्येवं या निरूपणा सा भावप्रत्युपेक्षणा । दारं । कथं पुनस्ते ब्रजन्तीत्याहसुत्तत्थं अकरिता भिक्खं का अइंति अवरण्हे । बिइयदिणे सज्झाओ पोरिसिअद्धाइ संघाडो॥ १४४ ॥
सूत्रपौरुषी अर्थपौरुषी चाकुर्वन्तो व्रजन्ति तावद्यावदभिमतं क्षेत्र प्राप्ता भवन्ति, पुनश्च ते किं कुर्वन्तीत्यत आह'भिक्खं का अइंति अवरण्हे' भिक्षां कृत्वा-तदासन्नग्रामे तद्बहिर्वा भक्षयित्वा पुनश्चापराहे प्रविशन्ति, ततो वसतिमन्वेषयन्ति, लब्धायां च वसतौ कालं गृहीत्वा द्वितीयदिवसे किञ्चिन्यूनपौरुषीमानं कालं स्वाध्यायं कुर्वन्ति । पुनश्च 'पोरिसिअद्धाइ संघाडो' 'पौरुसिअद्धाए' पौरुषीकाले सङ्घाटकं कृत्वा भिक्षार्थ प्रविशन्ति, अथवा स्वाध्यायं कियन्तमपि कालं कृत्वा 'पौरुसिअद्धाए' अर्द्धपौरुष्यामित्यर्थः, सङ्घाटकं कृत्वा प्रविशन्तीति । इदानीं ते सङ्घाटकेन प्रविष्टास्तत्क्षेत्रं त्रिधा विभजयन्ति, एतदेवाहखेत्तं तिहा करेत्ता दोसीणे नीणिअंमि अ वयंति । अण्णो लद्धो बहुओ थोवं दे मा य रूसेज्जा ॥१४५॥
AGREEMAMALARSHAN