SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ M श्रीओघनियुक्तिः द्रोणीया वृत्तिः द प्रजन्ति, 'उदए'त्ति पानकस्थानानि निरूपयन्ति, येन बालादीनां पानीयमानीय दीयते, 'ठाणे त्ति विश्रामस्थानं गच्छस्यगमनविधिः निरूपयन्तो व्रजन्ति, 'भिक्खंति भिक्षां निरूपयन्ति, येषु प्रदेशेषु लभ्यते येषु वा न लभ्यत इति, 'अंतरा य वसहीउत्तिनि . १४२- - अन्तराले वसतीश्च निरूपयन्तो गच्छन्ति यत्र गच्छः सुखेन वसितुं याति, स्तेनाश्च यत्र न सन्ति, यत्र व्यालाः तथा । १४३ स्वापदा न सन्ति-श्वापदभुजगादयो न सन्ति, 'पञ्चावाय'त्ति एकस्मिन् पथि गच्छतां दिवा प्रत्यपायः, अन्यत्र रात्री भा.७३-७४ प्रत्यपायः, ततो निरूप्य गन्तव्यम् । 'जाणविहित्ति अयं गमनविधिः । इदानी भाष्यकार एनामेव नियुकिगाथां प्रतिपदं व्याख्यानयन्नाहसो चेव उ निग्गमणे विही उ जो वनिओ उ एगस्स । दवे खेत्ते काले भावे पंथं तु पडिलेहे ॥७३॥ (भा०) स एव विधिर्य एकस्य निर्गमने उक्ता, 'विसजणा पओसे' इत्येवमादिको विधिरुतः, इदानी पथि व्रजतो विधिरुच्यते3 स चाय-'दधे खेत्ते काले भावे पंथं तु पडिलेहे'त्ति द्रव्यतः क्षेत्रतः कालतो भावतश्च मार्ग प्रत्युपेक्षते । इदानीमेतानेव द्रव्यादीन् व्याख्यानयन्नाहकंटगतेणा वाला पडिणीया सावया य दमि । समविसमउदयथंडिल भिक्खायरि अंतरा खेत्ते ॥७४॥(भा०) | तत्र कण्टकाः स्तेना व्यालाः प्रत्यनीकाः श्वापदाः एतेषां पथि यत्प्रत्युपेक्षणं सा द्रव्यविषया प्रत्युपेक्षणा भवतीति । द्वारं । तथा समविषमउदकस्थण्डिलभिक्षाचर्यादीनां या 'अन्तरे' पथि प्रत्युपेक्षणा सा क्षेत्रतः प्रत्युपेक्षणा । द्वारम् । इदानीं कालप्रत्युपेक्षणां प्रतिपादयन्नाह SAMASSSS RAS
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy