SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ 81 अगीतामक्षिप्य 'पारयित्वापावचे'त्ति वैयाकरणसहितो वा, णानां, कथम् ?-'पडिलोमं ति प्रतिलोमं अपवादमङ्गीकृत्य । अथवाऽविधिना प्रेष्यमाणेषु त एव दोषाः, तत्र 'पडिलोमंति अविधिप्रतिलोमो विधिस्तेन-प्रतिलोमविधिना प्रेषयेत् । इदानीं बालादीनां प्रेषणाहत्वे प्राप्ते यतना प्रतिपाद्यते-तत्र च गणावच्छेदकः प्रेष्यते, तदभावेऽन्यो गीतार्थः, तदभावेऽगीतार्थोऽपि प्रेष्यते, तस्य को विधिः सामायारिमगीए जोगमणागाढ खवग पारावे । वेयावच्चे दायणजुयलसमत्थं व सहिअं वा ॥ १४२ ॥ | अगीतार्थस्य सामाचारी कथ्यते, ततः प्रेष्यते, तदभावे योगी प्रेष्यते, किंविशिष्टः-'अणागाढे'त्ति अनागाढयोगी-बाघयोगी योगं निक्षिप्य 'पारयित्वा' भोजयित्वा प्रेष्यते, ततस्तदभावे क्षपकः प्रेष्यते, कथं ?-'पारावे'त्ति भोजयित्वा, तदभावे वैयावृत्त्यकरः, एतदेवाह-'वेयावच्चे'त्ति वैयावृत्त्यकरः प्रेष्यते, “दायण'त्ति स च वैयावृत्त्यकरः कुलानि दर्शयति, तदभावे 'जुअल'त्ति युगलं प्रेष्यते-वृद्धस्तरुणसहितः बालस्तरुणसहितो वा, 'समत्थं व सहिअं वत्ति समर्थे वृषभे प्रेष्यमाणे तरुणेन सह वृद्धेन वा सह, द्वितीयो वकारः पादपूरणः । आह-प्रथमं बालादय उपन्यस्ताः, तत्कस्मात्तेषामेव प्रेषणविधिर्न प्रतिपादितः प्रथम ?, उच्यते, अयमेव प्रेषणक्रमः, यदुत प्रथममगीतार्थः प्रेष्यते पश्चाद्योगिप्रभृतय इति, आह-इत्यमेवोपन्यासः कस्मान्न कृतः ?, उच्यते, अप्रेषणाहत्वं सर्वेषां तुल्यं वर्त्तते, ततश्च योऽस्तु सोऽस्तु प्रथममिति न कश्चिद्दोषः। इदानीं तेषां गमनविधि प्रतिपादयन्नाह पंथुञ्चारे उदए ठाणे भिक्खंतरा य वसहीओ। तेणा सावयवाला पच्चावाया य जाणविही ॥१४३ ॥ 'पंथ'त्ति पन्थानं-मार्ग चतुर्विधया प्रत्युपेक्षणया निरूपयन्तो गच्छन्ति, 'उच्चारैत्ति उच्चारणप्रश्रवणभूमिं निरूपयन्तो यदुत प्रथममगीतार्थप कृतः ।, उच्यते, अप्रेषणा इदानीं तेषां
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy