SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः ॥ ६३ ॥ वा तत्र कश्चित् 'उट्टाणे' त्ति उत्थितः - उद्वसितः स कदाचिदेशो भवेत् 'फेडण' त्ति प्राक् तत्र वसतिरासीत् इदानीं तु कदाचि - दपनीता भवेत् । (हरि) 'हरितपण्णीय'त्ति हरितं तत्र शाकादि बाहुल्येन भक्ष्यते तच्च साधूनां न कल्पते दुर्भिक्षप्रायं वा 'हरितपणीं 'ति तत्र देशे केषुचिद्गृहेषु राज्ञो दण्डं दत्त्वा देवतायै बल्यर्थं पुरुषो मार्यते, स च प्रव्रजितादिर्भिक्षार्थं प्रविष्टः सन्, तत्र गृहस्योपरि आर्द्रा वृक्षशाखा चिह्नं क्रियते, तच्च गृहीतसङ्केतो दूरत एव परिहरति, अगृहीतसङ्केतश्च विनश्यति, तस्माद्गणं पृष्ट्वा गन्तव्यमिति । अथवाऽन्यकर्तृकीयं गाथा, ततश्च न पुनरुक्तदोषः । इदानीं स आचार्यः क्षेत्रप्रत्युपेक्षकान् प्रेषयन् सर्व गणमालोचयति, अथ तु विशेष्यं कश्चिदेकमालोचयति शिष्यादिकं ततश्चैते दोषा भवन्ति सीसे जइ आमंतइ पडिच्छ्गा तेण बाहिरं भावं । जइ इयरा तो सीसा तेवि समत्तंमि गच्छति ॥ १३४ ॥ शिष्यान् विशिष्य केवलान् यद्यामन्त्रयति ततश्च को दोषः ?, 'पडिच्छग' त्ति सूत्रार्थग्रहणार्थं ये आयाताः साधवस्ते प्रतीच्छकाः 'तेण 'त्ति तेन अनालोचनेन 'बाहिरं भावं ति बहिर्भावं चिन्तयन्ति, बाह्या वयमत्र । अथेतरान्-प्रतीच्छकानालो| चयति ततः शिष्या बहिर्भावं मन्यन्ते, प्रतीच्छकाश्च सूत्रार्थग्रहणसमाप्तौ गच्छन्ति ततश्चाचार्य एकाकी संजायत इत्येवं दोषस्तावत् । अथ वृद्धान् पृच्छति ततः 'तरुणा बाहिरभावं न य पडिलेहोवही न किइकम्मं । मूलयपत्तसरिसया परिभूया वचिमो थेरा ॥ १३५ ॥ वृद्धानालोचयति तरुणा बहिर्भावं मन्यन्ते, ततश्च ते तरुणाः किं कुर्वन्त्यत आह-' न य पडिलेहोवही' उपधेः प्रत्युपेक्षणां न कुर्वन्ति, न च कृतिकर्म - पादप्रक्षालनादि कुर्वन्ति । अथ तरुणानेव पृच्छति ततः को दोष ?, वृद्धा एवं आपृच्छा गणस्य नि. १३१ १३५ ॥ ६३ ॥
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy