SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ त्यवयवेन तं व्याख्यानयन्नाह - 'पेसेति जइ अणापुच्छिउं गणं' प्रेषयति क्षेत्रप्रत्युपेक्षकान् यदि गणमनापृच्छय तत्रे 'दोषाः ' वक्ष्यमाणलक्षणाः अइरेगोवहिपडिलेहणाए कत्थवि गयति तो पुच्छे । खेत्ते पडिलेहेउं अमुगत्थ गयन्ति तं दुद्धं ॥ १३१ ॥ यदा क्षेत्रप्रत्युपेक्षकाः शेषप्रत्रजिताननापृच्छय गतास्तदा कथं ज्ञायन्ते ?, अत आह—अतिरिक्तोपधिप्रत्युपेक्षणायां सत्यां ते पृच्छन्ति - कुत्र गतास्त इत्येवं पृच्छन्ति । आचार्योऽप्याह - क्षेत्रं प्रत्युपेक्षितुममुकत्र क्षेत्रे गता इति, तेऽप्याहु:- 'तं दुई ति, 'तत्' क्षेत्रं न शोभनं, यतस्तत्र गच्छतां - • णा सावय मसगा ओमऽसिवे सेह इत्थिपडिणीए । थंडिल्लअगणि उट्ठाण एवमाई भवे दोसा ॥ १३२ ॥ स्तेनाः अर्द्धपथे स्वापदानि - व्याघ्रादीनि मशका वाऽतिदुष्टाः ओमं-दुर्भिक्षं 'असिवं' देवताकृत उपद्रवो यदिवा 'सेह' त्ति अभिनवप्रव्रजितस्य स्वजना विद्यन्ते, ते चोत्प्रवाजयन्ति, 'इत्थि'त्ति स्त्रियो वा मोहमचुराः, 'पडिणीए 'त्ति प्रत्यनीकोपद्रवश्च, 'थंडिल'त्ति स्थण्डिलानि वा न तत्र विद्यन्ते, 'अगणि'त्ति अग्निना वा दग्धः स देशः, 'उट्ठाणे'त्ति 'उत्थितः' उद्वसितः प्रदेशो वाऽपान्तराले इत्येवमादयो दोषा भवन्ति, तत्रापि प्राप्तस्यैते दोषाःपञ्चति तावसीओ सावयदुभिक्खतेणपउराई । णियगपदुहूट्ठाणे फेडणहरियाइ (हरिहरिय) णपण्णी ॥ १३३॥ स हि प्रत्यन्तदेशः म्लेच्छाद्युपद्रवोपेतः 'तापस्यः' तापसप्रव्राजिकाः ताश्च प्रचुरमोहाः संयमाद्भ्रंशयन्ति श्वापदभयदुर्भिक्षभयस्तेनप्रचुराणि वा क्षेत्राणि 'नियग'त्ति अभिनवप्रव्रजितस्य निजः - स्वजनादिः स चोत्प्रव्राजयति 'पदु 'त्ति प्रद्विष्टो
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy