________________
श्रीओघनियुक्तिः द्रोणीया
अनेके प्रत्युपेक्षकाः नि. १२६१३०
वृत्तिः
॥६२॥
भवन्ति-थूभादी होतिऽणुवएसा' स्तूपादिगमनशीला अनुपदेशाहिण्डकाः । उक्ता आहिण्डकाः। द्वारम् । अधुना ये ते ग छछगता विहरमाणकास्तेषामेव विधि प्रतिपादयन्नाह
पुण्णमि मासकप्पे वासावासासु जयणसंकमणा । आमंतणा य भावे सुत्तत्थ न हायई जत्थ ॥ १२८॥ - 'मासकल्पे' मासावस्थाने पूर्णे सति तथा 'वासावासासुत्ति वर्षायां वासो वर्षावासः तस्मिन् वा यो वासकल्पस्तस्मिन् पूर्णे सति । पुनश्च यतनया-संक्रामणया क्षेत्रसंक्रान्तिः कर्त्तव्या । किं कृत्वा ?-'आमंतणा यत्ति आमन्त्रणं आचार्यः शिष्या-| नामन्त्रयति-पृच्छति क्षेत्रप्रत्युपेक्षकप्रेषणकाले,चशब्दादागतेषु क्षेत्रप्रत्युपेक्षकेषु क्षेत्रगमने वा, भावेत्ति आगतेषु क्षेत्रप्रत्युपेक्षकेषु | |भावं प्रतीक्षते, कस्य किं क्षेत्रं रोचते ?, तत्र सर्वेषां मतं गृहीत्वा यत्र सूत्रार्थहानिर्न भवति तत्र गमनं करिष्यत्याचार्यः॥ इदानीमेनामेव गाथां व्याख्यानयति, अत्र यदुपन्यस्तं 'जयणसंकमण'त्ति तद् व्याख्यानयन्नाहअप्पडिलेहिअदोसा वसही भिक्खं च दुल्लहं होजा । यालाइगिलाणाण व पाउग्गं अहव सज्झाओ ॥१२९॥
अप्रत्युपेक्षणे दोषा भवन्ति, ते चामी-'वसहित्ति कदाचिद्वसतिदुर्लभा भवेत् , तथा भिक्षा वा दुर्लभा भवेत् तथा बालादिग्लानानां प्रायोग्यं दुर्लभं भवेत् । अथवा स्वाध्यायो दुर्लभः, मांसाद्याकीर्णत्वात् तस्मात् किम् ?तम्हा पुवं पडिलेहिऊण पच्छा विहीऍ संकमणं। पेसेइ जइ अणापुच्छिउं गणं तत्थिमे दोसा ॥ १३०॥ तस्मात्पूर्वमेव 'प्रत्युपेक्ष्य' निरूप्य पश्चाद् विधिना' यतनया संक्रमणं कर्त्तव्यम् । इदानीं यदुपन्यस्तं 'आमंतणा ये।
।।६२॥