________________
ओ० ११
• संयमविराधना आत्मविराधना तथा ज्ञानदर्शनचारित्राणां विराधना आज्ञालोपश्च जिनानां कृतो भवति, तथा अगीतार्थ एकाकी हिण्डन् करोति दीर्घ व संसारमिति । इदानीमेनामेव गाथां भाष्यकारो व्याख्यानयन्नाह -
संजमओ छक्काया आयाकंटऽट्ठिऽजीर गेलन्ने । नाणे नाणायारो दंसण चरगाइबुग्गाहे ॥ ६७ ॥ ( भा० ) 'संजमतो छक्काया' संयमविराधनामङ्गीकृत्य षङ्कायविराधना संभवति । 'आय'त्ति आत्मविराधना संभवति, कथं ?, 'कंटऽट्ठिऽजीरगेलणे' कण्टकेभ्यः अस्थिशकलेभ्यः आहारस्याजरणेन तथा ग्लानत्वेन । 'नाणे' ज्ञानविराधना भवति, कथं ? स हिण्डन् ज्ञानाचारं न करोति, 'दंसण चरगाइउग्गाहे' दर्शनविराधना, कथं संभवति ?, स ह्यगीतार्थश्चरकादिभिर्व्यब्राह्यते, ततश्चापैति दर्शनम् किं पुनः कारणं चारित्रं न व्याख्यातम् ?, उच्यते, ज्ञानदर्शनाभावे चारित्रस्याप्यभाव एव द्रष्टव्यः । द्वारम् । एवं तावदेकः कारणिको 'निक्कारणिओ य सोवि ठाणडिओ दूतिज्जंतओ य भणिओ' इदानीमनेकान् प्रत्युपेक्षकान् प्रतिपादयन्नाह—
margar कारणनिक्कारणे दुविहभेओ । जं एत्थं नाणत्तं तमहं वोच्छं समासेण ॥ १२३ ॥ अनेकेऽपि द्विविधा भवन्ति, कतमेन द्वैविध्येन ?, अत आह- 'कारणनिक्कारणित्ति कारणमङ्गीकृत्य अकारणं चाङ्गीकृत्य द्विविधाः, 'दुविह भेद'त्ति पुनर्द्विविधो भेदः, ये ते कारणिकास्ते स्थानस्थिता दूइज्जमानाश्च, येऽपि ते निष्कारणिकास्तेऽपि स्थानस्थिता दूइज्जमानाश्च । तत्थ जे कारणिआ दूतिज्जंतगा ठाणडिआ अ ते तहेव असिवादीकारणेहिं जहापुवं एगस्स गमणविहिं वक्खाणंतेण भणिअं, जेवि निक्कारणिआ दूइजंता ठाणडिआ य तेऽवि तह चेव थूभाइहिं,