SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ SUSISAASAASASHUSHISHIGAARA ब्रजतः साधोरेतेष्वनन्तरोदितेषु वसतेर्मार्गणा-अन्वेषणं कर्त्तव्यम् । इयं द्वारगाथा वर्तते । इदानीमेतामेव गाथा प्रतिपदं व्याख्यानयनाहवसही समणुण्णेसु मिइयादमणुण्ण अण्णहि निवेए।संनिगिहि इत्थिरहिए सहिए वीसुंघरकुडीए ॥१०॥ वसतिरन्वेषणीया, व?, अत आह-समणुण्णेसुं' संविग्नसमनोज्ञेषु आदी वसतिरन्वेषणीया, 'नितियादमणुन्न अण्णहि निवेए' अथ तु तत्र नित्यवास्यादयः अमनोज्ञा अन्यसामाचारीप्रतिबद्धा वा भवन्ति, आदिशब्दात्पार्श्वस्थादयो गृह्यन्ते, ततश्चैतेषु विद्यमानेषु नैतेषां मध्ये निवसितव्यं, किन्तु 'अण्णहिं' अन्यत्र वसतिं कृत्वा 'णिवेदे' निवेदयित्वा एषामेव-यथाऽमु|ष्मिन् अहं वसिष्यामि प्रतिजागरणीयो भवद्भिरिति, क्वासौ निवसति ? किंविशिष्टे वा गृहे निवसति ?-सज्ञी-श्रावकः,8 स च यदि महिलया रहितस्ततस्तद्गृहे वसति, अथासौ नास्ति ततः 'गिहित्ति गृही भद्रकोऽत्र सूचितः, स च स्त्रिया रहि|तस्तत्समीपे वसति, अथ भद्रकोऽपि स्त्रीरहितो नास्ति किन्तु सहितः स्त्रिया, ततः सहिते-स्त्रीयुक्ते सति 'वीसुति पृथग्| निवसति, व?-'घरकुटीए' तस्यैव गृहस्थस्य बहिरवस्थितं धनकादि, अथवा तत्फलहिकान्तर्गतकुट्यां वा निवसति । अथ भद्रकादिगृहं नास्ति ततः शून्यगृहे निवसति । किंविशिष्टे ?, अत आहअहुणुवासिअ सकवाड निब्बिले निच्चले वसइ सुण्णो । अनिवेइएयरेसिं गेलन्ने न एस अम्हंति ॥१०६॥ 'अहुणुवासिय'त्ति अधुना यदुद्वसितं तदपि सकपाटं यदि भवति तदपि निर्बिलं भवति निर्बिलमपि यदि निश्चलं भवति न पतनभयं यत्र तत्र वसितव्यं, तत्र चैते गाथोपन्यस्तानां चतुर्णा पदानां षोडश भङ्गका निष्पद्यन्ते, स चैवंविधे गृहे XARAISOGARANSISISI SAX
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy