________________
श्री ओघनिर्युक्तिः द्रोणीया
वृत्तिः
॥ ५७ ॥
वसतिं कथयित्वा नित्यवास्यादीनां यथाऽहमत्रोषितो भवद्भिर्भलनीयो, यदा पुनः 'अणिवेदितेतरेसिं'ति यदा तु नित्यवास्यादीनामनिवेद्य वसति, तत्र च उषितः सन् दैवयोगाद् ग्लानः संजातस्ततो ग्लानत्वे सति नित्यवास्यादीनां स गृहस्थ आगत्य कथयति-यदुत प्रव्रजितोऽपटुः संजातः, ते नित्यवास्यादयोऽस्माकं न कथितमितिकृत्वा एवं ब्रुवते - 'न एस अम्हं ति न एषोऽस्माकं - नायमस्मद्गोचरे, यदा तु पुनः पूर्वोक्तानां सर्वेषामेवाभावः संजातः, किन्तु तस्मिन् क्षेत्रे नित्यवास्यादयः सन्ति ततस्तेष्वेव वसितव्यम्, एतदेवाह -
नीयाइ अपरिभुत्ते सहिएयर पक्खिए व सज्झाए । कालो सेसमकालो वासो पुण कालचारीसु ॥ १०७ ॥ नित्यवास्यादौ वसति, आदिशब्दादमनोज्ञेषु वसति कथमित्याह - ' अपरिभुत्ते' त्ति तैर्नित्यवास्यादिभिर्यः प्रदेशस्तस्या वसतेर्न परिभुक्तः - अनाक्रान्तस्तस्मिन् प्रदेशे अपरिभुक्ते च सति वसति, 'सहितेतर'त्ति ते च नित्यवास्यादयः सहितेतरे संहिताःसंयतीभिर्युक्ताः केचन नित्यवास्यादयो भवन्ति, इतरे इत्यपरे संयतीरहिता भवन्ति तेषु च निवसति । ये ते संयतीभिर्युकास्ते द्विविधाः - एके कालचारिणीभिः संयतीभिर्युक्ताः, तत्र निवसत्येव, अपरे अकालचारिणीभिः संयतीभिर्युक्ताः, कश्च काल: १, 'पक्खिए व सज्झाए' त्ति ताः संयत्यः पाक्षिकक्षामणार्थमागच्छन्ति स्वाध्यायार्थं वा, 'अयं कालः, शेषस्तु अकालः, तत्र 'वासो पुण कालचारीसु' वासस्तु तस्य साधोः कालचारिश्रमणीयुक्तेषु भवतीति । अथ कालचारिसंयतीयुक्ताः साधवो न सन्ति ततः
ते परं पासत्थाइए न य वसइ कालचारीसु । गहिआवासगकरणं ठाणं गहिएऽगहिएणं ॥ १०८ ॥
स्थानविधिः नि. १०५१०९
॥ ५७ ॥