________________
नियुक्तिः
श्रीओघद्रोणीया
स्थानासतिबहिर्मिक्षाविधिः भा.५६-५९
वृत्तिः
॥५२॥
दृष्टे सागारिके सति 'असंभम त्ति असम्भ्रमो-न भयं कर्त्तव्यम् , असम्भ्रान्तेन च तेन साधुना 'पिण्डो तुज्झवि अ इमो' त्ति स्वाहा' भिक्षापिण्डं गृहीत्वा एवं करोति-अयं यमाय पिण्डः, अयं वरुणाय पिण्डः, अयं धनदाय पिण्डः, अयमिन्द्राय पिण्डः, तुज्झवि अ इमोत्ति स्वाहा-तवाप्ययं पिण्डः स्वाहा 'वेउवित्ति विकृतं शरीरं करोति पिशाचगृहीत इव, एवंविधं साधुं दृष्ट्वा सोऽप्यगारी 'दोच्चा' इति भयेन 'णीति' निर्गच्छति, मुणि(पिसा)ऊ त्ति काऊणं पिशाचोऽयमितिकृत्वा । एवं तावदभ्यन्तरस्थसागारिकदर्शने भुञ्जानस्य विधिरुक्तः, यदा तु पुनर्बहिर्व्यवस्थित एव एभिः स्थानान्तरं पश्यति तदा को विधिः ? इत्यत आह- . तिचेण व मालेण व वाउपवेसेण अहव सढयाए । गमणं च कहण आगम दूरब्भासे विही इणमो॥५८॥(भा०)
यदा तु सागारिको बहिर्व्यवस्थित एव साधुं तीव्रण-छिद्रेण कुटिकापवड्डकेन कटकेन पश्यति, 'मालेण वत्ति माले-उपरितलव्यवस्थितो यदा कदाचिच्छठतया पश्यति, 'वाउपवेसण'त्ति, अथवा 'वायुप्रवेशेन' गवाक्षेण शठतया पश्यति, अथवेति विकल्पार्थः, एतेनान्येन वा प्रदेशेन 'शठतया' धूर्ततया पश्यति, दृष्ट्वा च गमनं च करोति स सागारिकः, 'कहणं'ति गत्वा चान्येभ्यः कथयति-यदुतागच्छत पश्यत पत्रके भुञ्जानः साधुढेष्ट इति, तत्र 'आगम'त्ति तेऽप्यागच्छन्ति, पश्यामः किमेतत्सत्यं न वेति, 'दूरभासे विही इणमो' दरादागच्छता अभ्यासाद्वाऽऽगच्छतां 'विही इणमो' विधिः 'अयं| वक्ष्यमाणलक्षणो भवति । कश्चासौ विधिरित्यत आहथोवं भुंजइ बहुअं विगिंचई पउमपत्तपरिगुणणं । पत्तेसु कहिं भिक्खं दिट्ठमदिढे विभासा उ ॥ ५९॥ (भा०)
॥५२॥