________________
*OSAA ARUSHAUSHALTSG
असति तस्मिन्नुभये यदा श्रावकोऽल्पसागारिको नास्ति, नापि श्राविकाऽल्पसागारिका, श्राविकश्राविकयोरन्यतरो वा|8| यदाऽल्पसागारिको नास्ति तदा अभावे सति 'अपज्जत्ते वत्ति यदा पर्याप्तं तस्मिन् श्रावकगृहे भक्तं न भवति लब्धं तदाऽन्यत्रापि भिक्षाटनं कृत्वा 'सुण्णघराईति शून्यगृहादिषु गम्यते भोजनार्थम् , आदिशब्दाद्देवकुलादिषु वा, तेषां च शून्यगृहादीनां बहिरेव व्यवस्थितः संशब्द-काशितादिरूपं करोति, कदाचित्तत्र कश्चित्सागारिको दुश्चारित्री भवेत् स च तेन शब्देन निर्गच्छति, अथैवमपि शब्दे कृते न निर्गच्छति ततो यट्या द्वारे घट्टन-आहननं क्रियते, ततः प्रविशति, प्रविष्टश्च यदि कञ्चिन्न पश्यति ततः 'उस्सग्गं'ति ईर्यापथनिमित्तं पञ्चविंशत्युच्छासप्रमाणं कायोत्सर्ग करोति, तथा च 'आसत्थे'त्ति मनागाश्वासितः सन् । ततश्च
आलोअणमालोवो अदिलुमिवि तहेव आलावो । किं उल्लावं न देसी ? अदिह निस्संकिअं भुंजे ॥५६॥ (भा०) ____ 'आलोकनं' निरूपणं तत्त् करोति, अथ निरूपिते [कश्चिदृष्टः] 'आलावोत्ति, यदि कश्चिदृष्टस्तत आलपनं करोति, किमिह भवानागतः ? इति । 'अदिट्ठमिवि तहेव आलावोत्ति अदृष्टेऽपि सागारिके तथैवालपनं करोति, किमिह भवानायातः इति । अथैवमप्युक्तो न कश्चित्तत्रोत्तरं ददाति तत इदमुच्यते-'किमुल्लावं न देसीति ?, तस्मादुल्लापं प्रतिवचनं प्रयच्छेति । अथैवमपि न कश्चित्तत्रोपलब्धस्ततः 'अदिडेत्ति सर्वथा सागारिकेऽनुपलब्धे सति निःशङ्कितं भुत इति । अथ एभिरप्युपायैर्न प्रकटीभूतः सागारिकः पश्चात्तु प्रकटीभूतो भुञ्जतः सतस्ततः,दिढ असंभम पिंडो तुज्झवि य इमोत्ति साह वेउची। सोवि अगारोदोचा नीइ पिसाउत्तिकाऊणं ॥५७॥(भा०)