________________
यदि तावदूरे सागारिकास्ततः स साधुः 'धोवं भुंजति' स्तोकं भुङ्क्ते, बहुभक्तं 'विगिंचति' त्यजति गर्त्तादौ - अल्पसागारिकं करोति धूलिना वा आच्छादयति, अथाभ्यास एव सागारिकास्ततः 'थोवं भुंज' त्त्यन्यथा व्याख्यायते - स्तोकं भुङ्क्ते यावन्मात्रं मुखस्यान्तस्तिष्ठति तावन्मात्रमेव भुङ्क्ते, शेषं परित्यजतीति प्राग्वत्, 'पउमपत्त' त्ति पद्मपत्रसदृशं निर्लेपनं पात्रे करोति 'परिगुणण 'ति स्वाध्यायं कुर्वस्तिष्ठतीति । एवं च व्यवस्थितस्य साधोस्ते सागारिकाः प्राप्ताः, ते च प्राप्ताः सन्त इदं पृच्छन्ति'कहिं भिक्खं ति क्व त्वया भिक्षा कृतेति । तत्र 'दिट्ठमदिट्ठे विभासा उ' दृष्टेऽदृष्टे च 'विभाषा' विकल्पना कार्या, यदि दृष्टो भिक्षामटन् तत इदं वक्ति-तत्रैव श्रावकादिगृहे भक्षयित्वा इहागत इति । अथ न दृष्टो भिक्षामटंस्ततः— अहेि किं वेला तेसि निबंधंमि दायणे खिंसा । ओहामिओ उ बहुओ वण्णो अ पहाविओ तहिअं ॥ ६० ॥
अदृष्टे सतीदं वक्तव्यं-किं वेला वर्त्तते भिक्षाटनस्य ?, अथैवमप्युक्तानां पत्रकदर्शने निर्बन्धः ततो 'दाण'त्ति दर्शयति पत्रकं, दृष्टे च पत्रके सति 'खिंसति' ते सागारिकास्तं बटुकं जुगुप्सन्ते- धिक् त्वामसमीक्षितभाषिणमिति । ततः किं जातम् ? - 'ओहामिओ उ बडुओ' अपभ्राजितो बटुकस्तिरस्कृत इत्यर्थः । वर्णश्च यशः प्रख्यापितं तत्रेति-तस्मिन् भोजनविधौ । 'सुण' इत्ययमवयवो व्याख्यातः, इदानीं 'बहिं सागार' त्ति अमुमवयवं व्याख्यानयन्नाह,—
सुण्णघरासह बाहिं देवकुलाईसु होइ जयणा उ । तेगिच्छिधाउखोभो मरणं अणुकंपपडिअरणं ॥ ६१ ॥ (भा० ) शून्यगृहस्यासति - अभावे 'बाहिं देवकुलाईसु होति जयणा उ' ततो बहिर्देवकुलादौ व्रजति, तत्रापि देवकुलादौ वनगह्वरादौ इयमेव यतना कर्त्तव्या 'बाहिं संसद लट्ठीए दारघट्टण' इत्येवमादि सर्व कर्त्तव्यम् । अथ कथं बहिः सागारिकस