________________
वयवं भाष्यकारो व्याख्यानयिष्यतीति । इदानीं तत्र सञ्ज्ञिकुलेषु प्रविष्टः साधुः कारणमाश्रित्य दीर्घामपि भिक्षाचर्या' यथा करोति तथा प्रतिपादयन्नाह -
कक्खडखेत्तचुओ वा दुब्बल अडाण पविसमाणो वा । खीराइगहण दीहं बहुं च उवमा अपकडिल्ले ॥ ९२ ॥
'कक्खर्ड' रूक्षादिगुणसमन्वितं यत्क्षेत्रं तस्माच्युतः - आयातः सन् तथा दुर्बलो यदि भवति - वाध्यादिरोगाक्रान्तः, तथा पुरस्ताद्दीर्घमध्वानं प्रवेक्ष्यति यदि, तत एभिः कारणैः क्षीरादिग्रहणनिमित्तं दीर्घा भिक्षाचर्या करोति, बहुं च क्षीरादि गृह्णाति येनास्य कार्यस्य समर्थो भवति । आह- बहुभक्षणात्कथं विसूचिकादिदोषो न भवति ?, उच्यते, 'उवमा अयकडिल्ले' उपमा - उपमानं अयो- लोहं तन्मयं यत्कडिल्लं तेन उपमा, एतदुक्तं भवति यथा तप्तलोहकडिल्ले तोयादि क्षयमुपयाति एवमस्मिन् साधौ रूक्षस्वभावे बह्वपि घृतादि क्षयं यातीति । इदानीं य एव प्राग् व्यावर्णिता दोषास्तानेव कारणान्तरमुद्दिश्य गुणवत्तया स्थापयन्नाह -
जे चेव पडिच्छणदीह खद्वसुवणेसु वण्णिआ दोसा । ते चेव सपडिवक्खा होंति इहं कारणजाए ॥ ९३ ॥
य एव दोषा 'पडिच्छणे 'ति प्रतिपालने 'दीहं'ति दीर्घायां भिक्षाचर्यायां 'खद्ध'त्ति प्रचुरभक्षणे 'सुवण'त्ति स्वापे, एतेषु स्थानान्तरेषु 'वर्णिताः' कथिता ये दोषास्त एव सप्रतिपक्षाः - सविपर्ययाः गुणा इत्यर्थः, भवन्ति, 'इह' अस्मिन् 'कारणजाते कारणमाश्रित्य । इदानीं यदुक्तं नियुक्तिकृता - "पुच्छ बाहिं अंतो पविसिअवंति, एतद् व्याख्यानयन् भाष्यकार आहविहिपुच्छाए सण्णी सोउं पविसे न बाहि संचिक्खे। उग्गमदोस भएणं चोयगवयंणं बहिं ठाउ ॥ ५० ॥ भा० )