SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीओोघनियुक्तिः द्रोणीया वृत्तिः ॥ ५० ॥ 'विधिपृच्छ्या' पूर्वाभिहितया 'सञ्ज्ञिनं' श्रावकं श्रुत्वा ततः प्रविशेत्, क ? - श्रावकगृहे, न च बहिः संतिष्ठेत् किं कारणम् ? - उद्गमदोषभयात् मा भूत्तं साधुमुद्दिश्य कश्चिदाहारं कुर्याद् असौ सञ्ज्ञी । एवमुक्ते सत्याह चोदकः, किं तद् ?, इत्याह- 'बहिं ठाउ' बहिरेवासौ साधुर्भिक्षावेलां प्रतिपालयतु, मा भूत् प्राघूर्णक इतिकृत्वा श्रावक आहारपाकं करिष्यतीति । एवमुक्ते सत्याचार्य आह | सोचा दहूणं वा बाहिठिअं उग्गमेगयर कुज्जा । अप्पत्तपविट्ठो पुण चोयग ! दहुं निवारेज्जा ॥ ५१ ॥ ( भा० ) श्रुत्वा तं साधुं बहिर्वर्त्तिनमन्यस्मात्पुरुषादेः स्वयं वा दृष्ट्वा उद्गमादीनां दोषाणामेकतरं - अन्यतमं कुर्यात् । 'अप्पत्त'त्ति अप्राप्तायां वेलायामेतच्छ्रावकः कुर्यात्, एष बहिस्तिष्ठतो दोषः, 'पविडो पुण चोयग ! दहुं निवारेज्जा' प्रविष्टः पुनरसौ साधुः सञ्ज्ञिकुलं हे चोयग ! 'दहुं'ति दृष्ट्वा उद्गमादिदोषं निवारयेत् । किञ्च गोसाई कहणा उप्पायनेसणाणं च । तत्थ उ नत्थी सुन्ने बाहिं सागार कालदुवे ॥ ९४ ॥ उद्गमदोषादीनां कथनं करोति उत्पादनादोषाणां एषणादोषाणां च कथनं करोति, ततश्च यदि शुद्धं भक्तं ततस्तत्रैव सञ्ज्ञिगृहे भोक्तव्यम्, अथ तत्र नास्ति ततोऽन्यत्र गन्तव्यम् । एतदेवाह - ' तत्थ उ'त्ति तत्रैव - श्रावकगृहे भुङ्क्ते, 'नत्थि'त्ति अथ तत्र नास्ति भोजनस्थानं ततः 'सुण्ण'त्ति शून्यगृहे याति, 'बाहिं'ति अथ शून्यगृहे सागारिकैर्भोक्तुं न शक्यते ततो बाह्यतो व्रजति, अथ तत्रापि 'सागार' त्ति सागारिकाः ततः 'कालदुवेत्ति कालद्वितयं ज्ञातव्यं, किं ?, स्वल्पो दिवस आस्ते आहोश्वित् महान् ?, यदि महांस्ततो दूरमपि स्थण्डिले गत्वा समुद्दिशति, अथ स्वल्पो दिवसस्ततोऽस्थण्डिल एव यतनया कारणे दीभिक्षा नि. ९२-९३ विधिवृच्छा प्रवेशश्च भा. ५० ५१ दोष कथा नि. ९४ 1140 11
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy