________________
उत्तराध्ययन
॥ ३६६ ॥
१५
१८
२१
२४
सहस्राम्रवणे, याप्ययानादवातरत् ॥ समं राज्ञां सहस्रेण, प्रावाजीच जिनेश्वरः ॥ ४७६ ॥ [ युग्मम् ] लेभे मनःपर्यया, तुर्यज्ञानं प्रभुस्तदा । विजहार न भूपीठे ऽप्रतिबद्धः समीरवत् ॥ ४७७ ॥ वर्षान्ते च पुनः प्राप्तः, सहस्रास्र - वणं विभुः ॥ शुक्लध्यानं श्रितः प्राप, केवलज्ञानमुज्वलम् ॥ ४७८ ॥ तत आसनकम्पेन, तत्राऽऽयाताः सुरासुराः ॥ चक्रुः समवसरणं, प्राकारत्रयमञ्जुलम् ॥ ४७९ ॥ पूर्वद्वारेण तत्राथ, प्रविश्य भुवनप्रभुः ॥ धर्ममाख्यातुमारभे, पूर्वसिंहासनस्थितः ॥ ४८० ॥ तदा च व्यन्तरैः खामि- प्रतिमास्त्रिदिशं कृताः ॥ प्रभुप्रभावात्तदनु- रूपरूपत्वमासदन् ॥ ४८१ ॥ उद्यानपालकाः सद्य-स्ततो गत्वा न्यवेदयन् ॥ खामिनः केवलोत्पत्तिं चक्रायुधमहीभुजे ॥ ४८२॥ तत्स्तेभ्यः प्रीतिदानं दत्वा सोत्यर्थमुत्सुकः ॥ गत्वा नत्वा जिनं स्तुत्वा - श्रपीद्धर्मं समाहितः ॥ ४८३ ॥ देशनान्ते जिनं नत्वा, प्रोवाचेति महीपतिः । दिष्ट्या दृष्टोऽसि नाथ ! त्वं, कारुण्यामृतसागरः ॥ ४८४ ॥ अस्माच्छलान्विषो भीतभीतं मां भवराक्षसात् ॥ दीक्षारक्षाप्रदानेना - ऽनुगृहाण द्रुतं विभो ! ||४८५ ॥ खामिनाऽनुमतः सोऽथ, राज्यं न्यस्याङ्गजे निजे ॥ पंचत्रिंशन्नृपयुतः, प्रात्राजी जिनसन्निधौ ॥ ४८६ ॥ तांश्च पत्रिंशतं शान्ति-नाथो गणधरान् व्यधात् ॥ त्रिपद्या अनुसारेण, द्वादशाङ्गीविधायिनः ॥ ४८७ ॥ नरा नार्यश्च बहवो ऽपरेऽपि प्रात्रजंस्तदा ॥ श्राद्धाः केप्यभवश्चेति, तीर्थ तीर्थङ्करोऽकरोत् ॥ ४८८ ॥ ध्वंसयन् दुर्मतध्वान्तं, भव्याजानि प्रबोधयन् ॥ व्योम्नि भाखानिव १ समवायाङ्गाभिप्रायेण श्रीशान्तिनाथस्य नवतिर्गणधरा दृश्यन्ते, पत्रिंशच्चावश्यका दिबहुग्रन्था भिप्रायेण, तदत्र तत्वं केवलिनो विदन्तीति ध्येयम् ।।
अष्टादशम ध्ययनम्
(१८) शान्तिना
धचरित्रम् ४७६-४८८
॥ ३६६ ॥