________________
अष्टादशम| ध्ययनम् का शान्तिनाथचरित्रम् ४६१-४७५
पुर्योगा-द्यौवनं भूषयन्विभुः ॥ चत्वारिंशद्धनुस्तुंगो, विश्वं विश्वममोदयत् ! ॥४६१॥ पित्रोराज्ञेत्युपायंस्त, जिनो राजाङ्गजास्ततः ॥ यशोमत्यादिका धन्यं-मन्यास्तादृग्धवाप्तितः ॥ ४६२ ॥ यातेष्वब्दसहस्रेषु, जन्मतः पञ्चविंशतौ ॥ राजा राज्ये न्यस्य शान्ति, निजं कार्यमसाधयत् ॥ ४६३॥ जिनोऽपि बुभुजे भोगान् , पुरन्ध्रीभिः सहोत्तमान् ॥ कर्मभोगफलं ह्येव-मेवापति निकाचितम् ॥ ४६४ ॥ जीवो दृढरथस्याथ, सर्वार्थादन्यदा च्युतः ॥ आगाद्यशोमतीकुक्षौ, खप्ने चक्रं प्रदर्शयन् ॥ ४६५॥ पृष्टस्तयाऽथ खनार्थ, जगादेति जगत्पतिः ॥ तव देवी सुतो भावी, जङ्गमं विश्वमण्डनम् ॥ ४६६ ॥ पूर्णे च समये पुत्रं, सुषुवे सा सुलक्षणम् ॥ खामिखानानुसारात्तं, चक्रे चक्रायुधाभिधम् ॥ ४६७ ॥ क्रमेण वर्द्धमानोऽथ, सोपि यौवनमासदत् ॥ बह्वीनृपतिपुत्रीश्च, पर्यणैषीत् खयंवराः॥४६८ ॥ नृपत्वेऽपि सहस्रेषु, शरदां पञ्चविंशतौ ॥ गतेषु शस्त्रशालायां, चक्र प्रादुरभूत् प्रभोः॥ ४६९ ॥ चक्रपूजां कारयित्वा, ततस्तदनुगो विभुः ॥ लीलया साधयामास, षट्खण्डमपि भारतम् ॥ ४७०॥ द्वात्रिंशता सहस्रैर्भू-भुजां सेवितपत्कजः॥ कृतारिशान्तिः श्रीशान्ति-हस्तिनापुरमाययौ ॥ ४७१ ॥ ततो देवै देवैश्च, खामिनो द्वादशाब्दिकः ॥ चक्रे चक्रित्वाभिषेको, मोदयन् जगतीजनम् ॥ ४७२ ॥ अथान्तःपुरकान्ताव-चक्रवर्तिश्रियं प्रभुः ॥ भुआनो व्यत्यगादब्दसहस्रान्पञ्चविंशतिम् ॥ ४७३॥ तीर्थ प्रवर्तयेत्युक्तो, लोकान्तिकसुरैरथ ॥ निर्निदानं ददौ दान-माब्दिकं जगदीश्वरः ॥ ४७४ ॥ राज्ये चक्रायुधं न्यस्य, सर्वार्थी शिविकां श्रितः॥ सुरासुरनराधीश-कृतनिष्क्रमणोत्सवः ॥ ४७५ ॥गत्वा