SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३६५॥ अष्टादशमध्ययनम् शान्तिना थचरित्रम् &४४७-४६० चतुरो वृषान् ॥ ४४७ ॥ तद्विषाणोद्गतीरैः, स्त्रपयामास स प्रभुम् ॥ गन्धमाल्यविभूषाभिः, पूजयित्वाऽस्तवीच तम् ॥४४८॥ अथादायजिनं शक्रो-ऽचिरादेव्यन्ति केऽमुचत् ॥ द्रागवखापिनीमह-त्प्रतिरूपंजहार च ॥४४९॥ विनोदाय | विभोरूच, न्यस्य श्रीदामगण्डकम् ॥ उच्छीर्षके न्यधाद्वज्री, क्षौम कुण्डलयामले ॥४५०॥ जिने जिनजनन्यां च, यो दुास्यति दुर्मतिः ॥ तन्मौलिः सप्तधा भावी, आर्जकस्येव मञ्जरी !॥ ४५१॥ इत्युद्घोष्य सुरैरिन्द्रः, खर्णरत्नादिवर्षणम् ॥ श्रीदेन कारयित्वा च, द्वीपे नन्दीश्वरे ययौ ॥ ४५२॥ [ युग्मम् ] तत्र शाश्वतचैत्येपु, शक्रोऽन्येऽपि च वासवाः॥ अष्टाहिकोत्सवं कृत्वा, स्थानं निजनिजं ययुः ॥ ४५३ ॥ वर्धापितोऽथ दासीभि-भूपतिः पुत्रजन्मना ॥ ताभ्यो दत्त्वा भूरि दानं, प्राज्यं चके महोत्सवम् ॥ ४५४ ॥ गर्भस्थेऽस्मिन् सुते शान्ति-रशिवानामभूद्धवि ॥ इति क्षितिपतिः शान्ति-रिति तस्याभिधां व्यधात् ॥ ४५५ ॥ निहितं हरिणाङ्गुष्टे, पिबन् पीयूषमन्वहम् ॥ अद्वैतरूप| तेजःश्री-वृधेऽथ जगत्पतिः ॥ ४५६ ॥ पश्यतोरालिङ्गतोश्च, मौलावाजिघ्रतोश्च तम् ॥ पित्रोः सुखमभूब्रह्म-मग्नयोरिव निस्तुलम् ॥ ४५७ ॥ निशम्य मन्मनालापां-स्तस्येष्टान् धुसदामपि ॥ पितरौ पीतपीयूषा-विवात्यर्थमतुष्यताम् ॥ ४५८ ॥ भूपगेहाङ्गणं स्वामी, कमचमणैः क्रमात् ॥ अलञ्चकार चटुलैः, कल्पद्रुरिवजङ्गमः ॥४५९ ॥ शिशुभूतैः समं देव-श्वलचूलाञ्चलो विभुः ॥ पांशुलीलां व्यधाद्रम्या, शैशवे शोभते ह्यदः ॥ ४६० ॥ क्रमाच खव १ चलोऽस्थिरः चूलाया मस्तकमध्यशिखाया अञ्चलः प्रान्तभागो यस्य स तथा ॥ ॥३६५॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy