________________
अष्टादशमध्ययनम् शान्तिनाथचरित्रम् ४०८-४२०
महासत्व-ममुं मेरुमिव स्थिरम् ॥ शक्ताश्चालयितुं नैव, सेन्द्रा अपि सुरासुराः॥ ४०८॥ तन्महिष्यी सुरूपाति-रूपे तां तस्य वर्णनाम् ॥ असहिष्णू तदा तत्रा-ऽऽगातां तत्क्षोभहेतवे ॥४०९॥ कामपादपकुल्याभाः, कामिनीस्ते विचक्रतुः ॥ अनुकूलोपसर्गास्ता, इति प्रारेभिरे ततः ॥४१॥ कटाक्षविशिखैः काचि-दक्षा लक्षीचकार तम् ॥ काऽपि भूविभ्रमान् सुभ्र-विदधे पिदधे त्रपाम् ॥ ४११॥ पीनस्तनी स्तनौ शात-कुम्भकुम्भाविवोन्नतौ ॥ कापि प्राकाशयकेश-पाशोद्वन्धनकैतवात् ॥ ४१२॥ त्रिवलीललितं मध्यं, सुमध्या काप्यदर्शयत् ॥ कापि वापीसनाभिं च, नाभिं प्राकटयन्मुहुः ॥ ४१३ ॥ अस्मिन्नखपदे काञ्ची-दाम मां बहु बाधते ॥ माययेति महारोहा-रोहं कापि स्फुटं व्यधात् | ॥ ४१४ ॥ हले ! ऽलिना किं दष्टाह-मिहेति व्यपदेशतः॥ उत्क्षिप्य कापि संव्यान-मूर्वोर्मूलमदीदृशत् ॥ ४१५ ॥ शृङ्गारशाखिपुष्पाभं, काचिदस्मेरयत् स्मितम् ॥ काचिजगौ च गीतानि, विकाराङ्कुरवारिदान् ॥ ४१६ ॥ कथामकथयत् कापि, प्रिययोगवियोगयोः॥ खानुभूता रतक्रीडा, वर्णिनी काप्यवर्णयत् ॥ ४१७ ॥ देहि प्रियं वचः सौम्य
दृष्ट्या वीक्षख नः प्रभो ! ॥ कण्ठे निधेहि च भुजौ, तमित्यूचुश्च काश्चन ॥ ४१८ ॥ क्षोभायेति कृतास्ताभिः, कुचेष्टा ल निखिलां निशाम् ॥ प्रत्युतादीपयत् ध्यानं, तस्याऽऽप इव वाडवम् ॥ ४१९ ॥ मेरौ वात्या इवोवीशे, मोघास्ता विकृताः स्त्रियः ॥ ततः संहृत्य ते देव्यौ, नत्वा तं दिवमीयतुः॥ ४२०॥ निशावृत्तेन तेनाथ, पृथ्वीनाथो विरक्तधीः॥
१ शातकुम्भकुम्भौ वर्णघटौ ॥२ सुष्ठु मध्यं कटीभागं यस्याः सा सुमध्या स्त्रीत्यर्थः ॥ ३ संव्यानं वस्त्रमुरिक्षतप्य ऊर्बोर्नक्योर्मूलमदीदृशत् ।।