________________
१२
॥ ३८० ॥ न चान्यैरपि भोज्यैर्मे, तुष्टिर्भवति भूपते ! ॥ सद्यो हतप्राणिपला - खादनै करतो यहम् ॥ ३८१ ॥ क्षुधया त्रियमाणस्य, तदेनं देव ! देहि मे ॥ सर्वेष्वपि महात्मानो, भवन्ति हि कृपालवः ॥ ३८२ ॥ राजाऽथ श्येनमित्यूचे, कपोतप्रमितं तव । ददे स्वमांसमुत्कृत्य, मा म्रियेथा मुधा क्षुधा ॥ ३८३ ॥ ओमित्युक्ते तेन पारा-पतं नृपतिरेकतः ॥ तुलायां न्यास्थदुत्कृत्यो- त्कृत्य खामिपमन्यतः ॥ ३८४ ॥ चिक्षेप खपलं भूपः, छेदं छेदं यथा यथा ॥ कपोतपोतो ववृधे, वीवधेन तथा तथा ॥ ३८५ ॥ ततस्तुलामिलापालो - ऽध्यास्त शस्तमतिः खयम् ॥ तदा च मंत्रिमुख्यास्तं, सगद्गदमदोऽवदत् ॥ ३८६ ॥ रक्षणीयाऽमुनाङ्गेन, महीश ! निखिला मही ॥ पक्षिणो रक्षणायास्य, तद्विभो ! किं जहासि ? हा ! ॥ ३८७ ॥ किञ्चेयान् वीवधो नैवा-ण्डजे सम्भवति क्वचित् ॥ किन्त्वयं कोऽपि मायावी, भावी देवोऽथवाऽसुरः ! ॥ ३८८ ॥ इति तेषु वदत्स्वेव दिव्यालङ्कारभासुरः ॥ प्रादुर्भूयाऽमरो भूप - मित्युवाच कृताञ्जलिः ॥ ३८९ ॥ धर्माचालयितुं मेघ - रथं नेशाः सुरा अपि ॥ इति ते स्तुतिमीशान - शक्रेणोक्तामसासहिः ॥ ३९० ॥ अधिष्ठाय खगौ वैरायुध्यमानाविमौ खयम् ॥ अकार्ष त्वत्परीक्षार्थ - महमेतन्महीपते ! ॥ ३९९ ॥ [ युग्मम् ] तन्महासत्व ! धन्यस्त्वं, यस्त्रातुं प्राणिनं परम् ॥ प्रियानपि निजप्राणां - स्तृणायापि न मन्यसे ! ॥ ३९२ ॥ इत्युक्त्वा तं नृपं सज्जं, विधाय स्वर्ययौ सुरः ॥ मंत्र्यादयोऽपि तद्वीक्ष्य, विस्मयं दधुरुच्चकैः ॥ ३९३ ॥ देवः कोऽसौ पुरा किञ्च, पक्षिणोर्वैरमेतयोः ? ॥
१ भारेण ।
अष्टादशमध्ययनम् शान्तिनाथचरित्रम् |३८१-३९३