________________
अष्टादशमध्ययनम्शान्तिनाथचरित्रम् ३५२-३६६
तत्रादिमा प्रीतिमती, द्वितीया तु मनोरमा ॥ ३५२ ॥ जीवो वज्रायुधस्याथ, च्युत्वा ग्रैवेयकात्ततः॥ देव्याः प्रीतिमतीनाम्याः , कुक्षौ समवतीर्णवान् ॥ ३५३ ॥ प्रविशन्तं तदा वक्रे, गर्जन्तं विद्युदञ्चितम् ॥ वर्षन्तममृतासारं, खप्ने मेघं ददर्श सा ॥ ३५४ ॥ प्रातः स्वप्नार्थमुर्तीश-स्तया पृष्टोऽब्रवीदिदम् ॥ सुतस्ते भविता मेघ, इव सन्तापहृद्भुवः ॥ ३५५॥ सहस्रायुधजीवोऽपि, ततो अवेयकाच्युतः ॥ देव्या मनोरमाह्वाया, उदरे समवातरत् ॥ ३५६ ॥ सापि खप्ने रथं रम्यं, प्रेक्ष्य पत्ये न्यवेदयत् ॥ सोऽप्युवाच प्रिये ! भावी, सुतस्तव महारथः ॥ ३५७ ॥ पूर्णेथ समये ताभ्यां, प्रसूतावद्भुतौ सुतौ ॥ इन्द्रोपेन्द्राविव क्रीडा-वशोपात्तभवान्तरौ ॥ ३५८ ॥ पुत्रं तत्रादिमं भूमा-नाम्ना | मेघरथं जगौ ॥ परं पुनदृढरथं, राज्ञीखनानुसारतः ॥ ३५९ ॥ भूपयन्तौ तौ नरेन्द्र-कुलं मेरुमिवोन्नतम् ॥ बालौ क्रमादवर्द्धतां, बालकल्पद्रुमाविव ॥ ३६० ॥ रत्नेन काञ्चनमिव, बसन्तेनेव काननम् ॥ द्वितीयवयसा रूप-मभूष्यत तयोः क्रमात् ॥ ३६१ ॥ इतश्च निहतशत्रोः, सुमन्दिरपुरप्रभोः ॥ तिस्रोऽभुवन् सुता, विश्वत्रयश्रिय इवाहृताः! ॥ ३६२ ।। ताखाद्या प्रियमित्राहा, द्वितीया तु मनोरमा ॥ तृतीया सुमतिर्नाम, जगत्रयमनोरमा ॥ ३६३॥ तत्र मेघरथायादा-नन्दने द्वे स पार्थिवः ॥ एक पुनदृढरथ-कुमाराय लघीयसीम् ॥ ३६४ ॥ कान्ताभिः सह ताभिस्तौ, देवीभिरिव नाकिनौ ॥ भुञ्जानौ विषयान् कालं, भूयांसमतिनिन्यतुः ॥ ३६५ ॥ वोधितः श्रीघनरथो-ऽन्यदा लोकान्तिकामरैः ॥ ददौ वार्षिकदानं स-द्वातैर्नुन्न इवाम्बुदः ॥ ३६६ ॥राज्ये च यौवराज्ये च,