________________
१२
उ० ६१
| जीवोऽथानन्तवीर्यस्या - ऽच्युतखर्गात्परिच्युतः ॥ कुक्षौ लक्ष्मीवतीदेव्याः, समवातरदन्यदा ॥ ३२३ ॥ समयेऽजीजनत्पुत्रं, साऽपि लक्षणलक्षितम् ॥ सहस्रायुध इत्याख्यां चक्रे तस्योत्सवैः पिता ॥ ३२४ ॥ सोऽपि क्रमाद्वर्द्धमानः स्वीकृत्य सकलाः कलाः ॥ प्रपेदे यौवनं लीला-वनं मदनभूभृतः ॥ ३२५ ॥ सुतयुक्तेऽन्यदा क्षेमङ्करराजे सभां श्रिते ॥ वज्रायुधस्य सम्यक्त्व - मीशानेन्द्रोऽत्यवर्णयत् ॥ ३२६ ॥ अश्रद्दधानस्तचित्र - चूलो मिथ्यामतिः सुरः ॥ विवादं कर्त्तुमागात्तां सभां नास्तिकतां श्रितः ॥ ३२७ ॥ पुण्यपापप्रेत्यभावा-त्मादि नास्तीति वादिनम् ॥ वज्रायुधोऽवधिज्ञानी, निजगादेति तं मुदा ॥ ३२८ ॥ देव ! त्वमेवावधिना, पश्य प्राग्भवमात्मनः ॥ धर्मकर्म च तत्रत्यं सम्पदोऽस्या निबन्धनम् ॥ ३२९ ॥ पुण्ये प्राच्यभत्रे चैवं सिद्धे जीवोऽपि विद्यते ॥ अभावः पुण्यपापादे - स्तत्कथं कथ्यते त्वया ? ॥ ३३० ॥ उक्तो वज्रायुधेनेति, चित्रचूलसुरोऽब्रवीत् ॥ दुर्बोधोऽपि त्वया साधु, सुबुद्धे बोधितोऽस्म्यहम् ||३३१|| प्रसीद बोधिरनं द्रागू, देहि मिथ्यामतेर्मम ॥ न हीययाऽपि विहितं दर्शनं विफलं सताम् ॥ ३३२ ॥ वज्रायुधस्ततस्तस्मै, सम्यक् सम्यक्त्वमादिशत् ॥ निःस्पृहाय ददौ दिव्या, भूषास्तस्मै सुरोऽपि सः ॥ ३३३ ॥ सभामीशाननाथस्य, गत्वा चैवमुवाच सः ॥ वज्रायुधस्य सम्यक्त्वं, स्थानेऽश्लाघि त्वया प्रभो ! ॥ ३३४ ॥ अथ लोकान्तिकैर्देवैरुक्तः क्षेमङ्करः प्रभुः ॥ अर्थिभ्यो वार्षिकं दानं ददौ राज्यं च सूनवे ॥ ३३५ ॥ वज्रायुधेन देवैश्च, कृतनिष्क्रमणोत्सवः ॥ प्रव्रज्य केवलज्ञानं क्रमेण प्राप स प्रभुः ॥ ३३६ ॥ श्रुत्वा तद्देशनां वज्रा - युधस्य गृहमीयुषः ॥ उत्पत्तिं
अष्टादशम ध्ययनम् शान्तिनाथचरित्रम् ३२३-३३६