SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३५९॥ ॥ २८१॥ तदा च भो ! विष्णुरयं, बलश्चायं निषेव्यताम् ॥ वदन्त इति तन्मौली, पुष्पवृष्टिं व्यधुः सुराः ॥२८२॥ अष्टादशम. ततो नतैः खेचरैन्द्र-वृतो विष्णुः सहाग्रजः ॥ गच्छन् खपूया कनक-गिरि पर्वतमैक्षत ॥२८३॥ इहाद्री सन्तिाध्ययनम् चैत्यानि, तानि नत्वा ब्रज प्रभो !॥ तदेति खेचरैरुक्त-स्तचैत्यानि ननाम सः॥२८४ ॥ तत्र कीर्तिधरं साधु, तदै शान्तिनावोत्पन्नकेवलम् ॥ वीक्ष्य नत्वा च सोऽश्रौषी-देशनां सपरिच्छदः ॥ २८५॥ बन्धूनां विरहस्तात-घातश्चाभूत्कुतो थचरित्रम् मम ? ॥ अथेति पृष्टः कनक-श्रिया मुनिरदोऽवदत् ॥ २८६ ॥ धातकीपण्डभरते, शङ्खग्रामेऽभवदशा॥श्रीदत्ताहाऽ- २८२-२९३ तीवदुःस्था, परौकःकृत्यजीविका ॥ २८७॥ श्रीपर्वते गता सत्य-यशसं मुनिमन्यदा ॥ वीक्ष्यावन्दत सा दत्ता-शिर्ष तं चैवमब्रवीत् ॥ २८८ ॥ अहमत्यन्तदुःस्थास्मि, तत्किञ्चित्तादृशं वद ॥अत्रामुत्र च येनाहं, भवामि सुखिनी विभो! ॥ २८९ ॥ साधुस्तस्यै ततो धर्म-चक्रवालं तपोऽवदत् ॥ प्रारेभे तत्तपः सापि, तं प्रणम्य गृहं गता ॥ २९॥ तन्म| हिम्ना शुभं भोज्यं, प्राप पारणकेषु सा ॥ खगेहभित्तिदेशाच, पतितात्काञ्चनादिकम् ॥ २९१॥ उद्यापनं तपःप्रान्ते, सा विधायोत्तमं ततः । मासोपवासिनेऽन्नादि, ददौ सुव्रतसाधवे ॥२९२ ॥ कृताहारात्ततः साधोः, श्राद्धधर्म च साददे ॥ दध्यौ चान्येधुरित्यस्मा-धर्माद्भावि फलं न वा ? ॥ २९३॥ विचिकीत्सामनालोच्य, विपन्ना साऽन्यदा ॥ ३५९॥ १॥ अष्टमं १ एकान्तरं चतुर्थ ३७ प्रान्ते भष्टमं १ इति धर्मचक्रवालं तपः ॥ अथवा प्रथमं षष्ठं १ तत एकान्तरोपवासाः ६० इति । प्रकारद्वयेन धर्मचक्रवालं, तत्र प्रथमप्रकारे दिनसर्वाय ८२ । द्वितीयप्रकारे १२३ ।।
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy