________________
अष्टादशमध्ययनम् शान्तिनाथचरित्रम् २६७-२८१
गृहाणानुगृहाण मां ॥ न हि जातु जनं रक्त-मुपेक्षन्ते भवाशाः !॥ २६७ ॥ बभाषेऽनन्तवीर्योऽथ, यद्येवं तर्हि | सुन्दरि !॥ एहि यावः शुभापूर्या, ततस्तं सा पुनर्जगी ॥ २६८॥ एष्याम्यहं कान्त ! किन्तु, कन्नर्थ पिता मम ॥ प्रत्यूचे तां हरिस्मि-भैषीस्त्वं कातरे ! ततः॥ २६९ ॥ ततस्ताभ्यां सहारुह्य, विमानं साऽचलन्मुदा ॥प्रोवाचानन्तवीर्योऽथ, वाक्यमित्युचकैस्तदा ॥ २७ ॥ हराम्यनन्तवीर्योऽहं, दमितारिसुतामिमाम् ॥ शूरंमन्यस्ततो यः स्यात्स खोजो दर्शयत्वहो ! ॥ २७१ ॥ तन्निशम्य नृपः प्रैषी-द्भटांस्तं हन्तुमुद्भटान् ॥ रत्नानि चक्रवर्जाणि, प्रादुरासंस्तदा तयोः॥ २७२ ॥ दमितारिभटांस्तांश्चा-मर्षणान् शस्त्रवर्पिणः॥ सद्योऽनाशयतां सीरि-शाह्मिणौ तौ महारथौ ॥२७॥ दमितारिस्ततोऽचाली-सैन्यैराच्छादयन्नभः ॥ अनभ्रं विधुदुद्योतं, कुर्वन्नुत्तेजितायुधैः॥ २७४ ॥ तमायान्तं वीक्ष्य भीता-माश्चास्य कनकश्रियम् ॥ अवलिष्ट बलिप्टो द्राग् , योद्धं विष्णुबलान्वितः ॥ २७५ ॥ तत्सैन्यद्विगुणं सैन्यं, विद्यया विदधे च सः॥ योद्धं प्रववृते तच, दमितारिभटैः समम् ॥ २७६ ॥ निजसैन्येन तत्सैन्या-नऽभन्मान् वीक्ष्य केशवः॥ पाञ्चजन्यं जन्यनाट्य-नांदीनादमवादयत् ॥ २७७॥ ततो भीतेषु नष्टेषु, खेचरेष्वखिलेष्वपि ॥ दमितारिः सहानन्त-वीर्येण युयुधे चिरम् ॥ २७८ ॥ दुर्जयं तं च विज्ञाया-ऽस्मरच्चकं स पार्थिवः॥ पाणौ तस्य तदप्यागातेजसाऽन्य इवाऽऽरुणः ॥२७९ ॥ मुमोचानन्तवीर्याय, तच्चक्रं दमितारिराट् ॥ सोऽपि तत्तुम्बघातेन, मूञ्छितो| न्यपतत्क्षणम् ॥ २८० ॥ उत्थितस्तु क्षणाचक्रं, तदेवादाय केशवः ॥ दमितारं प्रत्यमुश्च-त्तत्सङ्गात्सोऽपि जीवितम्
CADCALCCACANCECARECHOCALC