________________
अष्टादशम. ध्ययनम्
(१८) शान्तिनाथचरित्रम् २२४-२३७
उत्तराध्ययन वीर्योऽपि, वर्यवीर्यविराजितः॥ आखण्डल इवाखण्ड-शासनो बुभुजे भुवम् ॥ २२४ ॥ खेचरेणान्यदैकेन, समं स॥३५७॥
ख्यमभूत्तयोः ॥ स च दत्वा तयोर्विद्याः, सर्वा वैताढ्यमीयिवान् ॥ २२५ ॥ 'किराती' 'बर्बरी' संज्ञे, चाभूतां चेटिके
तयोः ॥ हरन्यौ जगतश्चित्तं, गीतनाट्यादिकौशलात् ॥ २२६ ॥ पुरोऽन्यदा सोदरयो-रास्थानस्थितयोस्तयोः ॥ दप्रारब्धे नाटके ताभ्यां, तत्रोपेयाय नारदः ॥ २२७ ॥ संगीताक्षिप्तचित्ताभ्यां, ताभ्यां चाकृतगौरवः ॥ अन्तः स
कुपितोऽत्यन्त-मगाद्वैताढ्यपर्वतम् ॥ २२८ ॥ दमितारिः प्रतिहरि-स्तत्र विद्याधराधिपः॥ द्रागऽभ्युत्थाय तं सिंह-| विष्टरेण न्यमन्त्रयत् ॥ २२९ ॥ दत्ताशिषं निविष्टं च, दमितारिस्तमित्यवक् ॥ त्वया हि भ्रमता खैरं, ब्रूहि दृष्टं किमद्भुतम् ॥ २३०॥ ततः प्रमुदितोऽवादी-नारदोऽद्यैव भूपते ! ॥ शुभापुर्यां गतोऽनन्त-वीर्यस्योर्वीपतेः पुरः ॥२३॥ किरातीबर्बरीसंज्ञ-चेटिकारब्धनाटकम् ॥ अहमद्भुतमद्राक्षं, दुरापं घुसदामपि !॥ २३२ ॥ [ युग्मम् ] तद्विना राज्यमप्येतत् , फल्गु भोज्यमिवाघृतम् ॥ उक्त्वेति गगनेनागा-नारदर्षिः कलिप्रियः॥२३३॥ दूतोऽथानन्तवीर्याय, प्रहितो दमितारिणा ॥ गत्वा शुभापुरीं नत्वा, साग्रज तमदोऽवदत्॥२३४॥ विजयाद्धेऽत्र यत्सारं, दमितारेस्तदर्हति ॥ चेट्यौ | नट्याविमे राज्य-सारे तस्मै प्रदेहि तत् ! ॥ २३५ ॥ उवाचानन्तवीर्योऽथ, यातु दूताऽधुना भवान् ॥ त्वरितं प्रेष-| यिष्यामि, किञ्चिदालोच्य चेटिके ॥ २३६ ॥ ततः प्रयाते दूते तौ, भ्रातराविति दध्यतुः ॥ अयं हि विद्याशक्त्यैव, भूपोऽस्मासु प्रभूयते ॥ २३७ ॥ तत्साधयामो विद्यास्ता, यास्तेन सुहृदार्पिताः ॥ अविहस्तौ रहस्तौ द्वौ, यावद्यमृश
॥३५७॥