SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ अष्टादशमध्ययनम् शान्तिनाथचरित्रम् २१०-२२३ थामिततेजसः ॥ कुक्षौ वसुंधरादेव्याः, पुत्रत्वेनोदपद्यत ॥ २१०॥ वदने विशतो दंति-वृषेन्दुकमलाकरान् ॥ सुखसुप्ता तदापश्य-रखने सा कमलानना ॥२११॥ तया स्वप्नफलं पृष्ट-श्चैवं स्माह महीपतिः ॥ खनैरेभिः शुभे ! भावी, बलदेवस्तवाङ्गजः ॥ २१२ ॥ तदाकर्ण्य प्रमुदिता, राज्ञी गर्भ वभार सा ॥ क्रमाचाजीजनत्पुत्रं, श्वेतवर्ण सुलक्षणम् ॥ २१३ ॥ चक्रेऽपराजित इति, तस्य नामोत्सवैर्नृपः॥ मितम्पच इव द्रव्यं, तं चालालयदन्वहम् ॥ २१४ ॥ जीवः श्रीविजयस्याऽपि, च्युत्वा प्राणतकल्पतः॥ उदरेऽनुद्धरादेव्याः, समवातरदन्यदा ॥२१५॥ 'सिंहलक्ष्मीभानुकुम्भाम्भोधिरेनोचयानलान् ॥ मुखे प्रविशतः स्वग्ने-ऽद्राक्षीद्राज्ञी तदा च सा॥ २१६ ॥खप्नार्थमथ भूनाथः, पृष्टो मुदितया तया ॥ सानन्दमवदत्पुत्रो, विष्णुर्भावी तवाऽनघे ! ॥ २१७ ॥ कालेऽसूत सुतं सापि, श्यामवर्ण मनोहरम् ॥ तस्योत्सवैर्नृपो नामा-ऽनन्तवीर्य इति व्यधात् ॥ २१८ ॥ भ्रातरौ वर्द्धमानौ तौ, रममाणौ मियोऽनिशम् ॥ कलाकलाप सकलं, गुरोर्जगृहतुर्दुतम् ॥ २१९ ॥ वसन्तेनेव माकन्दौ, यौवनेन विभूषितौ ॥ भृङ्गीरिवागनादृष्टी-स्तावमोहयतां भृशम् ॥ २२० ॥ भूपोऽन्यदा वाहकेल्यां, गतः स्तिमितसागरः ॥ खयम्प्रभाऽभिधं साधु-मुद्यानस्थमवन्दत ॥२२१॥ देशनां च ततः श्रुत्वा, प्रतिबुद्धः स बुद्धिमान् ॥राज्ये न्यस्यानन्तवीय, प्रात्राजीत्तस्य सन्निधौ ॥ २२२ ॥ स चारुचरितोऽप्यन्ते, किञ्चिद्दीक्षां व्यराधयत् ॥ कालं कृत्वा च चमरा-ऽभिधोऽभूदसुराधिपः ॥२२३॥ साग्रजोऽनन्त १ सभ्रातानन्तवीर्योपि । इति 'घ' संज्ञकपुस्तके ॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy