________________
१२
वचसापि न । १८२ ॥ तद्रूहि भगवन्नस्यां किं मम प्रेमकारणम् ॥ श्रीपेणादीनां ततस्ता, कथामुक्त्वेत्यवग् मुनिः ॥ १८३ ॥ श्रीषेणसत्यभामाभि- नंदिताशिखिनंदिताः ॥ विपद्य युग्मिनोऽभूवं स्ततो मृत्वाऽभवन् सुराः ॥ १८४ ॥ च्युत्वा ततोऽपि श्रीषेणो ऽमिततेजा अभूदसौ || ज्योतिःप्रभाह्वा भार्यास्य, जज्ञे सा शिखिनंदिता ॥ १८५ ॥ जीवोऽभिनंदितायास्तु सोऽयं श्रीविजयोऽभवत् ॥ तस्य पत्नी सुतारेयं, भामाजीवस्त्वजायत ।। १८६ ॥ कपिलस्तु ततो मृत्वा भ्रांत्वा तिर्यक्षु भूरिशः ॥ तापसस्य सुतो धर्म-रतोऽभूद्धर्मिलाभिधः ॥ १८७ ॥ स च बालतपस्तीत्रं कुर्वन्नारभ्य बाल्यतः ॥ खे यांतमन्यदाऽपश्यत् खेचरं परमर्द्धिकम् ॥ १८८ ॥ अमुष्मात्तपसो भावि भवे भूयासमीदृशः ॥ निदानमिति सोऽकार्षीन्मृत्वा च त्वमभूस्ततः ॥ १८९ ॥ ततः प्राग्भवसम्बन्धात्, स्नेहोऽस्यां भवतोऽभवत् ॥ शतशोऽपि भवान् याति, संस्कारः स्नेहवैरयोः ॥ १९० ॥ श्रुत्वेति विस्मितेष्वन्तः, सकलेष्वर्क कीर्त्तिसूः ॥ भव्योऽस्मि यदि वा नास्मी - त्यपृच्छत्तं मुनिप्रभुम् ॥ १९९ ॥ साधुरूचे भवादस्मा-द्भावी त्वं नवमे भवे ॥ क्षेत्रेऽत्र पंचमश्चक्री, धर्मचक्री च षोडशः ॥ १९२॥ तस्मिन् भवे श्रीविजयो, ज्येष्ठपुत्रो गणी च ते ॥ भावीत्याकर्ण्य तौ श्राद्ध-धर्म स्वीचक्रतुर्नृपौ ॥ १९३ ॥ अथेत्यूचेऽशनिः साधुं विना सन्मार्गदेशकम् ॥ मूढः पान्थ इवारण्ये, भवे सुचिरमभ्रमम् ॥ १९४ ॥ दिष्ट्या त्वमद्य दृष्टोऽसि, सिद्धिपूर्मार्गदर्शकः ॥ तत्प्रसद्य प्रभो ! सद्यः, साधुधर्म प्रदेहि मे ॥ १९५ ॥ अनुज्ञातोऽथ मुनिना - ऽशनिघोषो न्यधात्सुधीः ॥ खपुत्रमश्वघोषाख्य-मुत्संगेऽमिततेजसः ॥ १९६ ॥
अष्टादशम ध्ययनम्शान्तिना
थचरित्रम् १८२-१९६