SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ३५५॥ अष्टादशमध्ययनम् (१८) | शान्तिनाथचरित्रम् १६८-१८१ महाज्वाला-मादिदेशार्ककीर्त्तिसूः ॥ ततस्तमन्वधाविष्ट, सा विद्या विश्वजित्वरी ॥ १६८ ॥ तस्या नश्यन् क्वाप्यपश्यन् , शरण्यं भृशमाकुलः ॥ विवेशाशनिघोषोऽपि, भरतार्द्धऽत्र दक्षिणे ॥ १६९ ॥तत्रः भ्रमंश्च सीमाद्रौ, तत्कालोत्पन्नकेवलम् ॥ बलदेवर्षिमचलं, सोद्राक्षीदमरैर्वृतम् ॥ १७० ॥ तमेव शरणीचक्रे-ऽशनिघोषोऽपि सत्वरम् ॥ न्यवतत ततो मोघा, महाज्वाला विहाय तम् ॥ १७१॥ गत्वा च वार्ती तां सर्वा-मुवाचामिततेजसे ॥ ततः स मुमुदे वाढं, नृपः श्रीविजयस्तथा ॥ १७२ ॥ ततः सुतारामानेतुं, प्रेष्य मारीचिखेचरम् ॥ ससैन्यौ तौ विमानस्थौ, द्राक् सीमाद्रौ समेयतुः ॥ १७३ ॥ तत्र प्राणमतां भक्त्या-ऽचलकेवलिनं च तौ ॥ पुर्यां चमरचंचायां, मारीचिः खेचरोऽप्यगात् ॥ १७४ ॥ अहं सुतारामानेतुं, प्रहितोऽमिततेजसा ॥ आगामिहेति च माहा-ऽशनिघोषस्य मातरम् ॥ १७५ ॥ ततः सुतारामादाय, सीमाद्रौ सा ययौ द्रुतम् ॥ अर्पयामास तां च श्री-विजयामिततेजसोः ॥१७६ ॥ तदा च क्षमयामासा-ऽशनिघोषोऽपि तौ मुदा ॥ अथ तेषां पुरश्चक्रे, देशनामचलप्रभुः॥ १७७ ॥ देशनान्ते च रामर्षि-मित्यूचेऽशनिघोषराट् ॥ न मया दुष्टभावेन, सुताराऽपहृता प्रभो!॥ १७८ ॥ किन्तु प्रतारणीविद्या, साधयित्वा गृहं ब्रजन् ॥ ज्योतिर्वनेऽपश्यमिमा-मुपश्रीविजयं स्थिताम् ॥ १७९॥ हेतोः कुतोऽप्यभूदस्यां, मम प्रेम वचोऽतिगम् ॥ विहायैनां पुरो गन्तुं, ततोऽहं नाऽभवं प्रभुः ॥ १८०॥ पार्थस्थिते श्रीविजये, नैनां हर्तुमहं क्षमे ॥ प्रतार्येति प्रतारण्या,नृपमेनामपाहरम्॥१८॥ अमूमपापां चामुंच-मातुरं मातुरन्तिके ॥ अस्यै चानुचितं किञ्चि-दवोचं ॥३५५॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy