SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ A अष्टादशमध्ययनम् शान्तिनाथचरित्रम् १५४-१६७ CANCIENCREASANCHAR घोरं, महानीकमनीकयोः ॥ १५४ ॥ तदा च समरं द्रष्टुं, देवानां दिवि तस्थुषाम्॥ वीराः केऽपि व्यधुर्विघ्नं, कुर्वन्तो| मण्डपं शरैः॥१५५॥कुन्तप्रोन्तान् रिपून् केचि-दुद्दधुर्वटकानिव॥केप्यद्रीणामिवेभानां, दन्तान् दण्डैरखण्डयत्॥१५६॥ मुद्गरैर्ममृदुः केपि, घटानिव भटा रथान् ॥ परिषैश्च परान् केचि-चुक्षुदुश्चणकानिव ॥१५७॥ कुष्माण्डानिव केचित्तु, द्विपः ख यंदारयन् ॥ केप्यभिन्दन् द्विषन्मौलीन् , गदाभिर्नालिकेरवत् ॥ १५८ ॥ केप्युत्खातेभदन्तेन, प्रजहुर्निप्ठितायुधाः ॥ योद्धारः केप्ययुध्यन्त, नियुद्धेन महौजसः ॥ १५९ ॥ शस्त्रमंत्रास्त्रमायाभिः, सदैवं युध्यमानयोः ॥ किंचिदूनो मास एको, व्यत्यगात्सैन्ययोस्तयोः ॥ १६०॥ भटैः श्रीविजयस्याथा-ऽभज्यन्ताऽशनिघोषजाः ॥ ततो डुढौके युद्धाया-ऽशनिघोपनृपः खयम् ॥ १६१॥ इक्षुनुक्षेव सोऽभांक्षीत् , सुतानमिततेजसः ॥ ततः श्रीविजयो राजा, जन्यायाऽढौकत स्वयम् ॥ १६२ ॥ साश्चर्यैर्वीक्षितौ देवै-स्तौ मिथो घातवञ्चिनौ ॥ उभावपि महावीयौं, चक्रतुः समरं चिरम् ॥ १६३॥ अथ श्रीविजयश्चित्वा-ऽसिना शत्रु द्विधा व्यधात् ॥ जातावशनिघोषौ द्वौ, ते तत्खण्डे उभे ततः॥ १६४ ॥ चत्वारोऽशनयोऽभूवं-स्तयोश्च छिन्नयोः पुनः ॥ भूयोऽपि तेषु भिन्नेषु, तेनाष्टाशनयोऽभवन् ॥ १६५॥ प्रतिप्रहारमिति तै-वर्द्धमानैर्मुहुर्मुहुः ॥ किंकर्तव्यविमूढोऽभू-द्यावत् श्रीविजयो नृपः ॥१६६॥ तावत्तत्रामिततेजाः, सिद्धविद्यः समाययौ । करीव सिंहं तं वीक्ष्या-ऽशनिघोषः पलायत ॥ १६७ ॥ तं चानेतुं १ युद्धाय।
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy