________________
456
उत्तराध्ययन ॥३५४॥
अष्टादशमध्ययनम् (१८) शान्तिनाथचरित्रम् १४१-१५३
| ततो विद्याधरानीकै-छादयन् द्यां घनैरिव ॥ पुर्यां चमरचंचायां, क्षिप्रं श्रीविजयो ययौ ॥ १४१॥ वयं त्वशनि- ॥
घोषं तं, भूरिविद्याविदं विदन् ॥ सहस्ररश्मिना साकं, वपुत्रेणार्ककीर्तिसूः ॥ १४२ ॥ महाज्वाला महाविद्या, परविद्याबलापहाम् ॥ महासत्वः साधयितुं, जगाम हिमवगिरिम् ॥ १४३॥ [ युग्मम् ] सहस्ररश्मिना रक्ष्य-माणो| मासोपवासकृत् ॥ विद्या साधयितुं तत्रा-ऽमिततेजाः प्रचक्रमे ॥ १४४ ॥
इतश्चाशनिघोपाय, दूतं श्रीविजयो नृपः॥प्राहिणोत्सोऽपि गत्वा तं, प्रोवाचेति प्रगल्भवाक् ॥ १४५॥ प्रतारण्या विप्रतार्य, श्रीश्रीविजयपार्थिवम् ॥ हरन् सुतारां किं वीर-मन्यस्त्वं न हि लजितः ॥ १४६ ॥ यद्वा पौरुषहीनानां, छलमेव बलं भवेत् ! ॥ किन्तु ध्वान्तमिवार्के श्री-विजये तत्कथं स्फुरत् १॥ १४७ ॥ सुतारां देहि तत्तस्मै, तूर्ण प्रणतिपूर्वकम् ॥ त्वत्प्राणैः सह तां नेता, नेता श्रीविजयोऽन्यथा ! ॥ १४८ ॥ शशंसाशनिघोषोऽथ, साधु धृष्टोऽसि दूत रे ! ॥ यदि श्रीविजयोऽत्रागा-न्मन्दधीस्तर्हि तेन किम् ? ॥१४९॥ शौयांशोऽपि न मे तेन, वराकेण सहिष्यते ! ॥ भानुप्रकाशलेशोऽपि, सखते कौशिकेन किम् ॥ १५०॥ यथाऽऽयातस्तथा यातु, तदसाविह तु स्थितः ॥ सुतारां लप्स्यते नैव, लप्स्यते तु विगोपनाम् ॥ १५१॥ इति तद्वचनं दूतो, गत्वा राज्ञे व्यजिज्ञपत् ॥ सोऽथ क्रुद्धो भृशं युद्ध-सजः सेनामसजयत् ॥ १५२॥ विज्ञायाशनिघोषोऽपि, तस्य सैन्यं रणोद्यतम् ॥ सानीकानऽश्वघोषादीन् , प्रजिघायाऽऽजयेऽङ्गजान् ॥ १५३ ॥ पूर्णेऽथ रणतुर्याणां, निर्घोषैरभितोऽम्बरे ॥ तयोः प्रववृते
॥ ३५४॥